रामेऽथ गोकुलगते ममदाप्रसक्ते |
राम इति । प्रमदासु गोपीषु प्रसक्ते[१] लोले । हूताम् आहूतां तथाप्यनुपेतामनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति सति त्वं जगदीश्वर इति सेवकवादैर्मूढ: पौण्ड्रकवासुदेवः तव दूतं न्ययुङ्क्त नि[२]युक्तवान् ॥ १ ॥
नारायणोऽहमवतीर्ण इहास्मि भूमौ |
नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से किल, तान्युत्सृज्य मां शरणं व्रजेति सभायां जगाद ॥ २ ॥
दूतेऽथ यातवति यादवसैनिकस्त्वं |
दूत इति । यादवाः सैनिका यस्य स त्वं काशीं यातः पौण्ड्रकीयं वपुर्ददर्शिथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साङ्को यस्य । अनल्पमूल्यः अनल्पेन मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३ ॥
कालायसं निजसुदर्शनमस्यतोऽस्य |