शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां |
कालायसमिति ।कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः अस्य पौण्ड्रकस्य । कालानलोत्करकिरेण संहारकार्य[१]ङ्गारवर्षिणा । चकर्तिथ कृत्तबान् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥
जाड्येन बालकगिरापि किलाहमेव |
जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दधियां वाचा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः |
काशीश्वरस्येति । कथञ्चन वृतैः भूतैः समं सह कृत्यानलम् आभिचारकुण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥
तालप्रमाणचरणामखिलं दहन्तीं |
तालप्रमाणेति । पौरैः कथितो विज्ञापितोऽपि घूतोत्सवे घतक्रीडाकौतुके नो चलितः न विमुखो जातः, किन्तु पार्श्वस्थं चक्रं हस्तसंज्ञया विसर्जिथ ॥७॥
- ↑ 'र्यनलोत्कर' क. पाठः.