अभ्यापतत्यमितधाम्नि भवन्महास्त्रे |
अभ्यापततीति । अमितम् अपरिच्छिन्नं धाम तेजो यस्य, परिमितधाम्नामग्न्यादितेजसामपि तेज:प्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्वधाम्नां च धाम' इति वचनात् तस्मिन् भवन्महास्त्रे सुदर्शना [२] ख्ये अभ्यापतति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिणचेष्टितं सुदक्षिणं रोषात् पुप्लोष । काशिपुरीं सुदक्षिणराजधानीमपि अधाक्षीद् ददाह ॥ ८ ॥
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा |
स खल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृतिं प्राप्तुं खलतां तव वैरितां गतः नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पादयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः ॥९॥
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां |
साम्बमिति । कौरव्यपुत्रीं सुयोधनसुतां लक्ष[३]णां साम्बः स्वयंवरे हृतवान् ।