पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८५]
२९१
युधिष्ठिरराजसूयवर्णनम् ।


 निवार्येति । निजपक्षगान् पाण्डवान् निवार्य त्वं दनुजदारिणा असुरशरीरभेदनशीलेन स्वस्यारिणा सुदर्शनाख्येन चक्रेण विद्वेषिणः शिशुपालस्य शिरो जद्दिषे अच्छिनः । जनुस्त्रितये हिरण्यकशिपुरावणशिशुपालरूपे लब्धया ॥ ९ ॥

ततः सुमहिते त्वया क्रतुवरे निरूढे जनो
 ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
 मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ १० ॥

 तत इति । ततः शिशुपालवधानन्तरं सुतरां महिते पूजिते । त्वया निरूढे परिसमापिते श्रीकृष्णो जयति सर्वस्मादुत्कृष्टो भवति, स ईश्वरो यस्य वशे स धर्मजो जयतीत्यालपन् जनो महाजनः स्वं स्वं भवनं ययौ । स कल्यंशः सुयोधनस्तु सपत्नानां शत्रूणां पाण्डवानां श्रिया समृध्घा धुतम् असूयादिभिचलितं मनो यस्य । खाण्डवदाहे मयेनार्पिताया दत्तायाः सभाया मुखे स्थलजलभ्रमात् स्थलधिया जले पतनाद् जलधिया स्थले वस्त्रान्तग्रहणाच्च अभ्रमीत् सम्भ्रान्तोऽभूत् ॥१०॥

तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो-
 रपाङ्गकलया विभो ! किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
 जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ ११ ॥

 तदेति । तदा सुयोधनस्य जाडये सति द्रुपदनन्दनाभीमयोर्मुख उत्थितं हसितं अपाङ्गकलया कटाक्षलेशेन किमप्युज्जृम्भयन् सातिशयं कुर्वन् तदे []व धराभरनिराकृतौ बीजं वपन् कारणत्वेन स्थापयन् ॥ ११ ॥ इति जरासन्धवधवर्णनं युधिष्ठिरराजसूयवर्णनं च पञ्चाशीतितमं दशकं सैकम् ।


  1. 'दै' ख. पाठः.