पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
[स्कन्धः - १०
नारायणीये


 जिष्णोरिति । खिन्नं युद्धाङ्क विमुखं तमर्जुनं वक्ष्य । नित्य एक इति । नित्यत्वादवध्यत्वम् एकत्वाद् वध्यहन्तृभेदाभावश्च । तत् तस्माद्, यस्मादवध्य आत्मा तस्माद् वधभियं भीष्मद्रोणादिवधे याधर्मभीस्तां प्रोज्झ्य त्यक्त्त्वा धर्म्यं क्षत्रियधर्मादनपेतं युद्धं चरेत्युपदिश्य विश्वासार्थं विश्वरूपमैकात्म्यं दर्शयन् प्रकृतिं गतसम्मोहताम् अनयथाः प्रापयामासिथ ॥ ६॥

भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
 नित्यं नित्यं विभिन्दत्यवानभृदयुतं प्राप्तसादे च पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली-
 वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः॥७॥

 भक्तोत्तंस इति । पार्थे भीष्मसायकैः प्राप्तसादे सज्जातक्लेशे सति शस्त्रं न गृह्णामीति प्रतिज्ञां विजहत् त्यजन् क्रोधशालीव अरिवरं सुदर्शनम् । शस्त्रं ग्राहयामीति तत्प्रतिज्ञां सत्यं कर्तुमेव, न तव क्रोधशालित्वात् ॥ ७ ॥

 भगदत्तप्रयुक्तनारायणास्त्राद्', जयद्रथवधप्रतिज्ञायाः, कर्णनागास्त्राच्चार्जुनं रक्षितवानित्याह ----

युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
 वक्षस्याधत्त चऋस्थगितरविमहाः प्रार्दयन् सिन्धुराजम् ।
नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं
 तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ ८॥

 युद्ध इति । चक्रेण स्थगितं तिरस्कृतं रविमहो येन । सिन्धुराजं जयद्रथम् । कृत्तमौलिं खण्डितसकेशकिरीटम् । तत्रे ररक्ष । पाण्डवानां किंमिवोपकारं भवान् नाकार्षीत् ॥ ८ ॥

युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ-
 न्नप्रत्युत्थायिसूतक्षयकृदय सुतं तत्पदे कल्पयित्वा ।
यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते
 सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ ९ ॥