पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
[स्कन्धः-१०
नारायणीये


कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ १ ॥

 कुचेलनामेति । सतीर्थ्यतां सब्रह्मचारिताम् | त्वदेकरागेण त्वयि प्रेमलक्षणया भक्त्या । प्रशमी जितेन्द्रियः ॥ १ ॥

समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे वत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ २ ॥

 समानशीलेति । यद्यपि समानशीला, तथापि तथैव कुचेलवच्चित्तजयं धनादिनिःस्पृहत्वं नो समेयुषी प्राप्तवती । वृत्तेर्जीवनोपायस्य लब्धये रमापतिः । सखे[]ति निषेवौचित्यम् ॥२॥

इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद् ययौ वहन् पटान्ते पृथुकानुपायनम् ॥ ३ ॥

 इतीरित इति । पटान्ते उपायनम् उपहारं वहन् द्वारकां ययौ ॥ ३ ॥

गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ४ ॥

 गत इति । आश्चर्यमयीम् अनल्पशिल्पां भवत्पुरीं द्वारकां गतोऽयं कुचेलः तत्र गृहेषु व्घष्टसहस्रेषु मध्ये शैव्याया भवनं समेयिवान् प्राप्तः । तवातिसम्भावनया अतिसम्मानेन निर्वृतिं सुखमवापेति किं पुनरुच्यते ॥४॥

प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षे तदमर्षि कानने ॥ ५॥

 प्रपूजितमिति। अपर्तौ वर्षर्त्तुव्यतिरिक्तकाले तत् सुमहद् वर्षममर्षि सोढमिति यत्, तत् पुरा कृतं गुरुकुले कृ[]तं कर्माकथयः ॥ ५॥


  1. 'ति किं न निषेव्यते इत्यूचे उक्तवती ॥' क. पाठः.
  2. 'तं क' क. पाठः.