स रत्नशालासु वसन्नपि स्वयं ससुत्मन्नद्भक्तिभरोऽमृतं ययौ । |
स इति । सः स्वयं रत्नशालासु कामोद्दीपनविभा[१] वेषु वसन्नपि समुन्नमद्भक्तिभरः क्रमात् प्रवृद्धभक्त्यतिशयः अमृतं मोक्षं ययौ ॥ १० ॥
इति कुचेलोपाख्यानं सप्ताशीतितमं दशकम् ।
प्रागेवाचार्यपुत्रातिनिशमनया स्वीयषट्मूनुवीक्षां |
प्रागेवेति । मृतं पुत्रमानीयाचार्यदक्षिणां कृतवानिति निशमनया श्रवणेन कंसहतस्वीयषट्सूनुवीक्षां प्रागेव अतिचिरं काङ्क्षन्त्या मातुर्देवक्या उक्त्या महाबलिं प्राप्य पूर्वे मरीचेः पुत्रान् स्मरोद्गीथपरिष्वङ्गपतङ्गक्षुद्रभुग्वृण्याख्यान् पुनश्च धातुर्ब्रह्मणः शापाड् हिरण्यकशिपुभवान् शौरिजान् वसुदेवपुत्रान् मात्रे प्रदर्श्य स्वपदं स्वर्गम् अनयथाः प्रापयामासिथ ॥ १ ॥
श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । |
श्रुतदेव इति। श्रुतं विश्रुतम् ॥२॥
गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत- |
- ↑ 'भ' क. पाठः