गच्छन्निति । द्विमूर्ति: अङ्गीकृतशरीरद्वयः । एकेन बहुलाश्वेन भूरिभिर्विभवैः उपकरणैः विहितः कृतः उपचार: पूजा यस्य ॥ ३ ॥
अथ द्विजस्य मृतपुत्रनयनेनार्जुनस्य गर्वानयनपूर्वकमात्मनि तत्त्वबुद्ध्यापादनप्रकारमाह-
भूयोऽथ द्वारवयां द्वारवत्यां द्विजतनयमृतिं तत्मलापानपि त्वं |
भूय इति । दैवं स्वकर्मफलं को निरुन्ध्याद् अन्यथाकर्तुं कः समर्थ इति कथयन् त्वं तस्य द्विजस्य प्रलापानपि विश्ववोढा जगदीश्वरोऽपि असोढाः मर्षितवान्[१] । परमतमस्य पदस्य वैकु[२]ण्ठपदस्य प्रेक्षणेन अस्य जिष्णोः गर्वं विनेतुम् अपनेतुम् । मनुजधिया त्वयि कुण्ठितां निश्चयरहितां तत्त्वारूढां विधातुम् इदमिति मन्ये ॥ ४ ॥
नष्टा अष्टस्य पुत्राः पुनरपि तब तूपेक्षया कष्टवादः |
नष्टा इति । अस्य द्विजवरस्य अष्ट पुत्रा नष्टाः । तदा तु तवोपेक्षया द्विजसुतरक्षणौदासीन्याद् जनानां कष्टवादो लोकापवादो जातः । तदवसरे पार्थो द्वारकाम् आर प्राप । मैत्र्या सख्येन तत्रोषितः उवास । अनुपहृतसुतः अदत्तजनिष्यमाणकुमारश्चेद् अहं कृशानुम् अग्निं सन्निवेक्ष्ये प्रविशामि ॥ ५ ॥
मानी स त्वामापृष्ट्वा द्विजनिलयगतो वाणजालैर्महास्त्रै |