पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
[स्कन्धः - १०
नारायणीये


याम्यामैन्द्री तथान्याः सुरवरनगरीर्विद्ययासाद्य सद्यो
 मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ ६ ॥

 मानीति । स पार्थः मानी आश्रितरक्षणेऽद्वितीयोऽहमित्यभिमानी । अत एव त्वां परमवन्धुमप्यपृष्ट्वा महास्त्रैः आग्नेयादिभिः सूतिगेहं रुन्धानः कृतशरपञ्जरः दृष्टनष्टे जातमात्र एवं सशरीरमदर्शनं गते याम्यां यमनगरीम् ऐन्द्रीम् इन्द्रस्य नगरीम् अन्याः वरुणकुबेरादिसुरवरनगरी: विद्यया योगैश्वर्येण आसाद्य प्राप्य हुतभुजि अग्नौ पतिप्यन् पतिनुमारब्धो भवता सस्मितम् । पौरुषस्य दैवसापेक्षत्वम् इदानीं किमवसितमित्यर्जुनस्य भावावेदनं तव स्मितहेतुः ॥ ६ ॥

सार्धं तेन प्रतीची दिशमतिजविना स्यन्दनेनाभियातो
 लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
 पारे त्वं प्राददर्शः किमपि हि तपसां दूरदूरं पदं ते ॥७॥

 सार्धमिति। अतिजविना वेगातिशयवता । वारां पारे कारणजलमध्यवर्तिनि किमपि अनिर्देश्यं तमसां दूरदूरम् अत्य[]न्तदूरस्थितम् ॥ ७॥

तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै-
 रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् ।
मूर्तीनामीशितारं परमिह तिसृणामेकमर्थे श्रुतीनां
 त्यामेव त्वं परात्मन् ! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८ ॥

 तत्रेति । तिसृणां मूर्तीनामीशितार नियन्तारम् अत एव परं जगत्कारणं श्रुतीनामेकमर्थे प्रधानप्रतिपाद्यं क्षेमरूपं पुरुषार्थभूतं त्वामेव त्वं नेमिथ नमश्चकृषे ॥ ८ ॥

युवां गामेव द्वावधिकविवृतर्हिततया
 विभिन्नौ सन्द्रष्टुं स्वयमहमहार्षे द्विजसुतान् ।


  1. 'तिदू' क. पाठः.