पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[स्कन्ध:--१
नारायणीये

 एवं भगवद्गुणप्रस्तावेन झटिति हृदयदेशसमुदितपरचिद्रसार्द्रभगवद्रूपार्द्र[१]हृदयतया रोमाञ्चितशरीरस्य मौलौ बद्धाञ्जलेर्बाष्पसंरुद्धवाक्प्रसरस्य कवेर्मुखतः सगद्गदानि कानिचित् पदानि निर्गच्छन्ति--

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भ्दासिफालान्तरं
 कारुण्याकुलनेत्र मार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
 त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ १ ॥

 सूर्यस्पर्धीति । एकीकृतानेकादित्य बिम्बवदत्युज्ज्वलकन ककिरीटयुक्तम् । ऊर्ध्वतिलकेति । ऊर्ध्वाग्रविन्यस्तकस्तूरीतिलकोल्लसितंफालदेशम् । कारुण्याकुलनेत्रं भक्तजनविषयकरुणा [२]रसार्द्रतया मुहुरुन्मीलननिमीलन व्यापृतनयननलिनयुगलम् । आर्द्रहसितोल्लासं प्रेमार्द्रतयात्युल्लसितमन्दस्मितयुक्तम् । सुनासापुटं सुवर्णतिलकुसुमवदतिसुन्दरश्रीनासिकोदरयुक्तम् । गण्डोद्यन्मकराभकुण्डलयुगं गण्डमण्डलावलम्बमानम कररेखाङ्कितमणिकुण्डलयुग्मम् । कण्ठोज्ज्वलत्कौस्तुभं श्रीमत्कण्ठदेशभा[३]समानकौस्तुभरत्नम् । वनमाल्यहारपटलश्रीवत्सदीप्रं वनमालामुक्ताहारश्रीवत्सैः दीप्रं दीपनशीलम् । त्वद्रूपं भ[४]जे सम्प्रति स्मरामीत्यर्थः ॥ १ ॥

केयूराङ्गदकङ्कणोत्तममहारत्नागुलीयाङ्कित-
 श्रीमद्भाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित् काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी-
 मालम्बे विमलाम्बुजयुतिपदां मूर्ति तवार्तिच्छिदम् ॥ २ ॥

 केयूरेति । अंसावलम्बिकेयूराख्याभरणविशेषाणां तदधस्ताद् धृतानामङ्गदानां प्रकोष्ठस्थानां कङ्कणानां शिञ्जद्वलयानां* चोत्तमैः श्रेष्ठैः प्रत्युप्तानि महान्ति


 यस्मिन्नर्धार्यते, यश्च निर्धार्यते, यश्च निर्धारणहेतुः, एतत्त्रितयस्यासान्निधानाद् 'न निर्धारण' इति न निषेध इति व्याख्यातुराशयः,


  1. 'द्रींभूतह्ट' क. पाठ:.
  2. 'ण' ख. पाठ:.
  3. 'शोभमा' ख. पाठ:.
  4. 'जे ॥’ क पाठः ।