निश्चित्य ते च सुदृढं त्वयि बद्धभावाः |
निश्चित्येति । बद्धो भावो भक्तिर्येषाम् । सारस्वताः सरस्वतीतीरवासिनः ॥ ९॥
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव |
जगदिति । निगमनिवहैः मूर्तिमतीभिरुपनिषद्भिः जगत्सृष्ट्यादौ सगुणत्वेन स्तुतम् । सञ्चिदिति । सच्चिदानन्दाद्वयपरमात्मरूपेण च स्तुतमिति भावः । पशुपवनितानां भाग्यं तत्फलं नितरां वहति प्रापयतीति तथा । यद्वा भाग्यानां निवहं श्रीकृ ष्णरूपेण परिणतमिति । एवञ्च त्रिमूर्तिषु विष्णोरेव महत्त्वमित्यस्मिन्नर्थे सारस्वता मुनिवरा निगमनिवहाश्च प्रमाणमित्यप्युक्तं वेदितव्यम् ॥ १० ॥
इति वृकासुरवधवर्णनं मूर्तित्रितये भगवतः श्रेष्ठचवर्णनं च
एकोननवतितमं दशकम् ।
ननु त्रिमूर्तिषु महत्त्वं श्रीशङ्करस्यैवेति स्कान्दादौ बहुशः श्रूयत इत्याशङ्कय परिहरति—
वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते- |