पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९०]
३०७
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।


पक्षे “ विष्णुं पञ्चात्मकं वन्दे " इत्युक्ते श्रीभागवतपक्षे परात्मवपुः परमात्मस्वरूपस्त्वं विष्णुरेवेत्यर्थः । एवं विकुण्ठपढो वैकुण्ठवासी त्वमेवेश्वरशब्दवाच्यः । त्रयो भागा ब्रह्मविष्णुशिवलोका यस्मिंस्तत् त्रिभागं तस्मिन् सत्यपदे सत्यलोके त्रयो ब्रह्मविष्णुगिरिशाः तेषां भावस्त्रित्वं, सत्यलोकस्थब्रह्मविष्णुशिवलोकेषु त्रिमूर्तित्वमपि त्वमेव भजसीत्यर्थः । यथा हरिवंशे---

“ अहं त्वं सर्वगो देव! त्वमेवाहं जनार्दन ! ।
आवयोरन्तर नास्ति शब्दैरर्थैर्जगत्पते ! ॥"

इति ॥ २ ॥

 ननु यदि विष्णुशिवयोरभेदः, तर्हि कथं विष्णोः प्राधान्यमुच्यते । सत्यम् । यद्यपि तत्त्वदृष्ट्या भेदो नास्ति, तथापि गौणो भेदः उत्कर्षो निकर्षश्चानयोर्भवत्येवेत्याह-

तत्रापि सात्त्विकतनुं तव विष्णुमाहु-
 र्धाता तु सत्चविरलो रजसैव पूर्ण: ।
सत्त्वोत्कटत्वमपि चास्ति तमोविकार-
 चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ ३ ॥

 तत्रापीति । तत्र त्रिमूर्तिषु तव सात्त्विकी शुद्धसत्त्वमयीं तनुं विष्णुं केवलविष्णुशब्दवाच्यामाहुरित्यर्थः। तदुक्तं--

“राजसो भगवान् ब्रह्मा सात्त्विको विष्णुरुच्यते ।
ईषत्तमोगुणो रुद्रः सृजत्यवति हन्त्यजः ॥”

इति ॥ ३ ॥

 ननु "तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेवे"त्युक्तम् । तदयुक्तम्,

“अम्बिकापतिरीशान उपास्यो गुणमूर्तिभिः ।
ईश्वरः परमात्मैको मायया स त्रिधा स्थितः ॥

 इति वचनादिति चेदू, नेत्याह-

तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
 शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनविधौ तदपि स्वतस्तु
 त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ ४ ॥