तं चेति । त्रिमूर्त्यतिगतं मूर्तित्रयात् प[१]रं तं शैवानामीश्वरशब्दवाच्यं परं ब्रह्माण्डाद् बहिष्ठं पुरुषम् एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम् अन्तर्गतानेकब्रह्माण्डं त्वां खलूपासनविधौ शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि शंसन्ति पौराणिकाः। सर्वमयत्वहेतोरिति । तव त्रिमूर्त्यधिष्ठानत्वात्[२] तदपि नात्यन्तमयुक्तमित्यर्थः । तदपि तथापि स्वतः परमार्थतस्त्वद्रूपमेव तद्, न ब्रह्मशिवयोरित्यत्र बहु नः प्रमाणमिति । श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि सन्तीत्यर्थः । श्रुतिस्तावत् पुरुषसूक्तादौ । 'क्केहग्विधाविगणिते[३] त्यादीनि पुराणबचनानि । एवंरूपस्यार्जुनादिभिर्हष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥
श्रीशङ्करोऽपि [४] भगवान् सकलेषु तावत् |
श्रीशङ्कर इति । किञ्च श्रीशङ्करः भगव [५]त्पादाचार्यः । त्वान्निष्ठं विष्णुपरम्। नामसहस्रकादीति | आदिशब्देन श्रीगीतादि गृह्यते[६] । सोऽपि तदुभयमपि शिवपरतया व्याख्यातुं शक्यमपि विष्णुपरतयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः श्रीमत्पादादिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥ ५॥
सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह-
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- |