मूर्तित्रयेति । मूर्तित्रयातिगं चतुर्थं परमेश्वरं त्वां कलायसुषमं श्रीकृष्णमुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद,
नान्यं शिवमि[१]त्यर्थः ॥ ६॥
पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह-
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । |
समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठ[२]स्तु नहि लोक इति चेद् नैवमित्याह — त्रिमूर्तीति । मूर्तित्रययुक्तेभ्यः सत्यलोकस्थलोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तव वैकुण्ठलोक एवेति पुराणसंग्रहे कथितम् ॥ ७॥
यद् ब्राह्मकल्प इह भागवतद्वितीय- |
यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः, तस्मिन् भगवता धात्रे[४] प्रत्यक्षीकृतं यद् वपुः, तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे धात्रे दर्शितस्य वपुषो न शिवमूर्तित्वमुक्तवान्[५], सर्वमयस्तु त्वमेवेति च त्वामेवोक्तवानित्यर्थः ॥ ८ ॥
ननु
“गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्त्विकः । " |