प्रवृत्तिलक्षणा लीला प्राच्यैः पद्यैः प्रकीर्तिता । |
सम्प्रति भक्तानां मुक्तिमार्गप्रदर्शनाय भगवद्गुणान् वर्णयितुमारभमाणः प्रथमं मोक्षोपायमौलिभूतस्य भगवदुपासनस्य माहात्म्यं दर्शयति —
श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- |
श्रीकृष्णेति । बद्धा रूढपदा मिथ्यार्थे शरीरादौ दृष्टिः अहम्ममाभिमानो यस्य, अत एव मर्त्यस्य जननमरणधर्मिणः, तस्मादार्तस्य आध्यात्मिकादिदुःख- पीडितस्य त्वत्पदोपासनमभयतमं न विद्यते भयं यस्मात् तदभयम् अतिशयेनाभयम् अभयतमं[१] भवभयनिवर्तकं मन्ये | अभयतमत्वमाह-येनेति । येन त्वत्पदोपासनेन भयं सर्वात्मनैव निरवशेषमेव व्यपसरति अपगच्छति । उपासनसाधनेषु च भगवद्धर्मोऽकुतोभय इत्याह – यदिति । इह भगवद्भजनमार्गेषु मध्ये त्वत्प्रणीतान् भक्तानुग्रहाय भगवतैव स्वमुखेनैव प्रोक्तान् अत एव भागवताख्यान् भजनविधीन् धर्मान् तावत् सत्सङ्गद्वारा क्रमादास्थित आश्रितः सन् मोहमार्गे अज्ञानद्वारभूतरथ्यापणगणिकालयगोष्ठयादिप्रदेशे[२]ष्वास्थितो धावन् किञ्चित् किञ्चिदतिक्रम्यातिक्रम्य अतिशीघ्रमनुतिष्ठन् अपिच आवृताक्षः निमीलितश्श्रुतिस्मृत्याख्यनयनद्वन्द्वः । अज्ञात्वापीत्यर्थः । यदाहुः---
“श्रुतिस्मृती उभे नेत्रे विप्राणां परिकीर्तिते । |