पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २]
१७
भगवद्रूपवर्णनम् ।


परार्ध्यानि रत्नानि येषु, तैरङ्गुलीयै(श्चा) ङ्कितेनालङ्कृतेन श्रीमता शोभमानेनाजानुलम्बिना पीवरेण बाहुचतुष्केण सङ्गतानि गृहतिानि गदाशङ्खारिपङ्केरुहाणि यस्यां सा तथा, ताम् । काञ्चनकाञ्चि[] लाञ्छितेति[] । काञ्चनकाञ्च्या उपरिविन्यस्तया लाञ्छितं सञ्जातपरभागं स्वतः समुल्लसत्पीताम्बरमालम्बितुं परिधातुं शीलमस्या इति तथा, ताम् । विमलाम्बुजद्युतिपदां प्रतिनवारुणसरोजवद् विराजमानपदयुगलाम् । भक्तानां हृदि सन्निविष्टा सती तेषामाध्यात्मिकाद्यार्ति पीडां छिनत्तीत्यार्तिच्छित्, ताम् । काञ्चिद् ब्रह्मादिभिरध्यशक्यवर्णनसौभाग्याम् | तव मूर्तिमालम्बे आश्रयामि, ऊर्ध्वमुखीकृतोन्निद्रहृदयकमलकर्णिकायां न्यस्योपास्मह इत्यर्थः ॥ २ ॥

 सम्प्रति भगवन्मूर्तेः सौभाग्यं वर्णयति -----

यत् त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
 कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाक्ष्चर्यतो-
 ऽप्याश्चर्य भुवने न कस्य कुतुकं पुष्णाति विष्णो ! विभो ! ॥ ३ ॥

 यदिति । त्रैलोक्येऽस्मिन् जगति यद् महीयः अतिशयेन महत् पूजितम् उत्कृष्टं वस्तु, तस्मादपि महितम् अत्युत्कृष्टं यत् । यच्च त्रैलोक्ये मोहनं वस्तु, तस्मादप्यतिमोहनमाह्लादकम् । यच्च कान्तिनिधानतः शोभापात्रीभूताद् वस्तुनोऽपि कान्तमतिशोभनं सकलेन्द्रियाकर्षणसिद्धौषधम् । यच्च माधुर्यधुर्याद् माधुर्यकार्यसमर्थाद् वस्तुनोऽपि मधुरमतिमाधुर्ययुक्तं सन्तापशान्तिकरम् । यच्च सौन्दर्येणोत्तरमुत्कृष्ट[]मतिसुन्दरं च यद्वस्तु, तस्मादपि सुन्दरतरम् | यच्चाश्चर्यम् अद्भुतरसालम्बनभूतं वस्तु, तस्मादप्याश्चर्यतरं च[] । हे विभो ! संसारार्णवोत्तारणसमर्थ ! हे विष्णो! तादृशं त्वद्रूपं भुवने कस्य कुतुकं न पुष्णाति, बद्धमुक्तमुमुक्षुजनानामप्यतिशयेन श्रवणस्मरणाद्यौत्सुक्यं ददात्येवेत्यर्थः ॥ ३ ॥

तत्तादृङ्मधुरात्मकं तव वपुः सम्माप्य सम्पन्मयी
 सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत ! विभो ! त्वद्रूपमानोज्ञक-
 प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ ४ ॥


  1. 'ञ्च्ला' ख. पाठः.
  2. 'ति । उपरि विन्यस्तया काञ्चनमय्या काञ्च्या ला' क.पाठः.
  3. 'ष्टं' च’ ख. पाठः.
  4. 'च यत् । हे' क. पाठः.