जन्मकर्मणां नाम्नां च कीर्तनं, सर्वत्रेश्वरदृष्ट्या प्रणामश्चेह त्वत्सेवोच्यते । तस्यां सत्यां तव कृपावश्यंभाविनी । तया मम भक्तेरीश्वरप्रेम्णो दार्ढ्यं स्थैर्य, ततो विरागो विषयविरक्तिः, ततस्त्वत्तत्त्वस्येश्वरयाथा[१] तथ्यस्यावबोधः सम्यंगनुभव:, एतत् त्रितयमपि च सिध्येत् । यत्नभेदं विनैवेति । त्वत्कृपायामेव मया यत्नः कार्यः । तस्यां जातायाम् एतत् त्रयं युगपदेव सिध्येदित्यर्थः ॥ ६ ॥
किञ्चैवमीश्वरकृपया भक्तिविरक्तिज्ञानेषु जातेषु भक्तकुलोत्तंसतां प्राप्नुयामित्याह —
नो मुह्यन् क्षुत्तृढाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- |
नो मुह्यन्निति । नो मुह्यन् परवशतामगच्छन् । क्षुत्तृडाद्यैः भयतर्षकृच्छ्रादिभिः भवसरणिभवैः अनादिसंसारमार्गोत्थैः । त्वन्निलीनाशयत्वात् त्वयि ईश्वरे समाहितचित्तवृत्तित्वात्। किञ्च, चिन्ताया उपासनायाः सातत्यं सततमनुष्ठानं तदस्यास्तीति तथा। निमिषलवमपि निमेषकालस्यार्धमपि कालं त्वत्पदाद् भगवत्पादारविन्दभजनाद् अप्रकम्पः प्रमादरहितः इष्टानिष्टेषु सत्सु तुष्टिव्यसनविरहितः इष्टेषु पुत्रजन्मादिषु तुष्टिविरहितः अनिष्टेषु पुत्रमरणादिषु व्यसनविरहितः। मायिकत्वावबोधाद् शरीरादेर्भोग्यस्य मायानिर्मितत्वानुसन्धानात् । ज्योत्स्नाभिः शीतलाभिर्दीप्तिभिः । त्वन्नखेन्दोः त्वत्पादनखचन्द्रस्य । अधिकशिशिरितेन सन्तापराहित्यादतिशयेन सञ्जातानन्देन आत्मना मनसा उपलक्षितः सन् सञ्चरेयं वर्तेय ॥ ७॥
भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् |