पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -९१]
३१९
भक्तिस्वरूपतत्कार्यवर्णनम् ।


भ्यामिति भावः । विवशा अस्वतन्त्रा गतिः उच्चावचशरीरप्राप्तिर्येषां ते तथा । दुःखजाले संसारार्णवे क्षिपन्ती पातयन्ती त्वन्माया त्वदधीना माया मां त्वत्सेवकमपि माभिभूद् महुद्धिमाक्रम्य त्वत्स्मृतिं मापनैषीत् । अयि भुवनपते! श्रीकृष्ण! तां वारयेति भावः । त्वत्पादे भक्तिरेव तत्प्रशान्त्यै तस्या मायायाः प्रहाणाय कल्पते उपायो भवति, नान्योऽस्त्युपाय इत्यवदत् । सिद्धयोगी सिद्धो जीवन्मुक्तः[] योगी चेति सिद्धयोगी नवयोगिष्वन्यतमः । योगिषु मध्ये ज्ञातृज्ञेयज्ञानरहितत्वात् प्रबुद्ध इति संज्ञा । स हि विदेहाय राज्ञे “तन्माययातो बुध आभजेत् तं भक्त्यैकयेशम्” (श्री. भा. स्क. ११. अ. २. क्ष्लो. ३७) इति मायातारकत्वेन भक्तिमेवावोचत् ॥ ९ ॥

 अथ वैराग्यविवेकद्वारा गुरूपसत्तिलब्धभक्तिज्ञानसमुच्चयेन मायाजयप्रकारमाह --

दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-
 ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाघुद्भवक्तिभूमा ।
मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
 तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ १० ॥

 दुःखानीति । जन्तुषु सदैव दुःखपरिहाराय सुखप्राप्तये च प्रयतमानेषु शरीरिषु तत एव जातानि दुःखान्यालोक्य अलम् अतिशयेन उदितविवेकः यथेह पुत्रमित्रधनादयः सुखसाधनत्वेनाभिमन्यमानाः दुःखमेव जनयन्ति कर्मनिर्मितत्वादू, एवं स्वर्गेऽपीत्युत्पन्नविविक्तज्ञानः सन् अहमाचार्येषु ज्ञानविज्ञानसम्पन्नेषु बर्यः परोपदेशकुशलः तस्मात् त्वद्रूपस्य ईश्वरस्वरूपस्य तत्त्वं सम्यग्ज्ञानं लब्ध्वा अवाप्य गुणचरितानां गुणानां भक्तवात्सल्यादिभगवद्गुणानां तच्चरितानां च कथा कथनम् । आर्दशब्देन कीर्तनादि गृह्यते । गुणचरितकथादिभिः उद्भवन् भक्तेर्भूमा बाहुल्यम् अनपायित्वं यस्य स तथा । एनामित्युक्तिर्मायाकार्यस्य रागादेरनुभूय-


 *इयं तु कविनाम्नः सिद्धयोगिन उक्तिः ।


  1. 'क्तश्चासौ यो' क. ग. पाठः.