पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
[स्कन्धः-११
नारायणीये


मानत्वाद् । तरित्वा अतिक्रम्य परमसुखमये निरतिशयानन्दस्वरूपे त्वत्पदे पद्यत इति पदं ब्रह्म त्वत्स्वरूपे ब्रह्मणीत्यर्थः । अथवा परमसुखमये निरतिशयानन्दजनके त्वत्पदाब्जे मोदिताहे प्रसन्नो भवितास्मि भक्तजनैः सह भागवतधर्माभ्यासेन सेविष्य इति भावः । तस्य मोदस्य अयं मायाजयः पूर्वरङ्गः कारणत्वेन प्रथममनुष्ठेयः । यदाह बोप्पदेवः– 'मायाजयोऽपरा भक्तिर्ज्ञानकर्मसमुच्चयाद्' इति । यद्वा तस्य मायातरणादेर्मदनुष्ठेयस्यार्थस्य अयं मयासकृत् प्रार्थ्यमानो मद्रोगनाशः पूर्वरङ्गः नाटकप्रयोगे नान्द्यादिवत् प्रथममवश्य निर्वर्त्यः । स च त्वत्करुणैकायत्त इति त्वामेव प्रार्थयामीत्याशयेन प्रार्थयते - पवनपुरपते ! इति ॥ १० ॥


इति भक्तेरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च

एकनवतितमं दशकम् ।


 ननु सर्वकर्मणां भगवद्धर्मत्वापादनाय विना फलानुसन्धानमीश्वरसमर्पणेनानुष्ठानमुक्तम् । तदनुपपन्नं, स्वर्गद्यर्थमेव ज्योतिष्टोमादीनां विहितत्वात् फलकामस्यैव च तत्राधिकारादित्याशङ्कच वेदस्य परोक्षवादत्वात् तात्पर्यै दुर्ज्ञेयमित्यभिप्रायेण परिहरति

वेदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
 तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ! ।
मा भूद् वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति-
 र्दुर्वर्जे चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ १ ॥

 वेदैरिति । वेदैः विधिवाक्यैः सर्वाणि ज्योतिष्टोमादीनि कर्माणि अफलपरतया वर्णितानि न फलसाधनत्वेन विहितानि, किन्तु नैष्कर्म्यार्थं विहितानि । फलश्रुतिस्तु रोचनार्था । यथा माता बालमौषधं पाययन्ती गुडशर्करादिभिः प्रलोभयन्ती पाययति, ददाति च गुडशर्करादि । नैतावतौषधपानस्य तल्लाभः प्रयोजनम्, अपि तु रोगनिवृत्तिः, तथा वेदोऽप्यबान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्म विदधातीति बुद्ध्वा तानि फलपरत्वेन श्रुतान्यपि । एवकारेण फलाभिसन्धिर्व्यावर्त्यते । ननु यदि नैष्कर्म्यं कर्मणां फलं, तर्हि प्रथममेव कर्म त्यज्यतामित्याश-