सम्प्रति भक्तिदार्ढ्यायाभक्तानामनिष्टां गतिं वर्णयति 'स्त्रीशूद्रा' इति द्वाभ्यां -
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा- |
स्त्रीशूद्रा इति । आदिशब्देन नामादि गृह्यते । श्रवणं कीर्तनादेरप्युपलक्षणम् । त्वत्कथाश्रवणत्वन्नामकीर्तनत्वत्स्मरणादिविरहिता इत्यर्थः । ए[१]तच्चाज्ञानाद्, नानधिकारात् । ‘भक्तिश्चेच्छूद्रयोषितामिति बचनात् । अत एव ते दयार्हाः सद्भिर्दयया सुखं बोधनीयाः । ते तावत् तिष्ठन्त्यिति भावः । त्वत्पादासन्नयातान् उपनयनादिसंस्कारैरर्थावबोधपर्यन्तेनाध्ययनेन च त्वत्पादभजनाधिकारं प्राप्तान् द्विजानां त्रैवर्णिकानां कुले जनुर्जन्म येषां तान् अशान्तान् विषयपरान् हन्त शोचामि। ज्ञानलवदुर्विदग्धतया बोधयितुमशक्या [२] एते इति मम खेद इति भावः । वृत्त्यर्थम् उदरभरणार्थं यजन्तः पशुहिंसां कुर्वन्तः बहुकथितमपि श्रुत्यादिषु सगुणनिर्गुणभेदेन प्रतिपादितमपि त्वाम् ईश्वरम् अनाकर्णयन्तः शृण्वन्तोऽप्यश्रद्धानतया श्रवणफलमनासादयन्तः। अत्र हेतुमाह - हप्ता विद्याभिजात्यैः । 'विद्यामदो धनमदस्तृतीयोऽभिजनो मद' इत्युक्तमदत्रययुक्ताः किमु न विदधते किं न कुर्वन्ति । आभिचारसज्जननिन्दाद्यपि कुर्वन्त्येवेत्यर्थः । मां तादृशम् आत्महनं मा कृथाः ॥ ३॥
सन्निन्दामेव प्रपञ्चयति –
पापोऽयं कृष्ण! रामेत्यभिलपति निजं गृहितुं दुश्चरित्रं |
पाप इति । अयं पापः परद्रव्यापहारी । तत् कथमवगम्यते, कृष्ण! रामेत्य-