भक्ता भवन्तीति भावः । एतदन्तर्भवं द्रमिलविषयान्तःपातिनम्[१] अपिच त्वायि किञ्चिदञ्चद्रसम् ईषदारब्धभक्ति मां न भ्रमय ॥ ७ ॥
दृष्ट्वा धर्मगुहं तं कालिमपकरुणं प्राङ् महीक्षित् परीक्षि- |
दृष्ट्वेति । प्राक् पुरा परीक्षिन्नाम महीक्षिद् राजा धर्मद्रुहं वृषरूपिणं धर्मे दण्डेन प्रहरन्तं तं[२] कलिं दृष्ट्वा हन्तुं व्याकृष्टखोपि गुणांशाद्[३] न विनिहतवान् । ननु गुणांशे सत्यपि धर्मगृहं किं न निहतानित्यत्राह- सारवेदीति। अल्पत्वेऽपि गुणस्य सारांशत्वं जानन्नित्यर्थः । तदेवाह-वत्सेवादीति । अर्चननामकीर्तनादि आशु इह जन्मन्येव सिध्येद् भक्तिद्वारा मुक्तिमुत्पादयेत् । असद् दुष्कर्म तु इह कलौ न तथा नाशु सिध्येत् । किञ्च, त्वत्परे त्वद्भक्तविषये चैष कलिर्भीरुः ईश्वरविमुखेष्वेव कलिः प्रभवतीति भावः । किञ्च, प्रागेव त्वत्सेवाद्यारम्भात् पूर्वमेव रोगादिभिरपहरते त्वद्भजनान्निवर्तयतीति[४] तु यत् हा मम तु तदेवापतितम् । तन्न अपहरणे एनं कलिं शिक्षय[५] । यथा स्वत्सेवायामुघुक्तात् कलिर्दूरतोऽपसरति, तथैनं कुर्विति भावः ॥८॥
गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् |
गङ्गेति । त्वत्प्रसादप्रवृद्ध्या तद्द्वारेण मुक्तिप्रदान्येतानीत्यत्र स्मृतिप्रमाणत्वमाह - अभिदधुर्ऋषय इति ॥ ९ ॥