त्वत्कारुण्य इति । क इव नहि गुरुः, न केवलमात्मैव, पृथिव्यादिपदार्था अपि गुरव एवेति भावः । किमेभ्यः शिक्षणीयं, तदाह — लोकवृत्त इति ।
लोकाः स्थिरचरादयः तेषां वृत्तं क्षमानिस्सङ्गत्वालेपकत्वादिस्वभावः । तत्रैते
गुरव इत्यर्थः । हे विभूमन् ! विष्णो! भूमिः सर्वैः खलैराक्रान्तापि न चलति हि ।
ततः भूमेः सत्क्षमां स्वमार्गादचलनरूपां शिक्षयेयं कर्तव्यतयावगच्छेयम् । तत्तद्विषयैर्गुणवद्भिर्दोषवद्भिश्च परिचये सम्पर्के सत्यप्यप्रसक्तिम् असङ्गत्वं समीराद् गृह्णीयां शिक्षयेयम् । आत्मनः शरीरपरिच्छिन्नतया प्रतीयमानस्य व्याप्तत्वं सर्वशरीरेष्वन्तर्बहिश्च व्याप्तत्वम् । मे गगनगुरुवशादिति । गगनं हि घटादिपरिच्छिन्नतया
प्रतीयमानमपि र्बाहेरन्तश्च व्याप्तम् । किञ्च, निर्लेपता शरीरस्थत्वेऽपि तत्स्पर्शरहितो निर्लेपः, तस्य भावो निर्लेपता । सा च गगनगुरुवशादेव मे भातु । यथा
गगनं मेघादिभिर्न स्पृश्यते तथेति ॥ ३ ॥
जलानलशशिर विभ्यः शिक्षणीयमाह -
स्वच्छ: स्यां पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां |
स्वच्छ इति । अहमुदकवत् स्वच्छो निर्मल: पावनः दर्शनमात्रेण पापशोधकः मधुरो मधुरालापी च स्याम् । सर्वान्नीनः सर्वभक्षोऽपि वह्निवद् दोषं [१]मा स्म गृह्णां पापं नादद्याम् । अग्नेर्ग्राह्यान्तरमाह–तरुष्विति । तरुषु काष्ठेषु तमग्निमिव यथा काष्ठेषु प्रविष्टोऽग्निः काष्ठसमानरूपो हस्वदीर्घस्थूलसूक्ष्मादिरूपोऽवगम्यते, तथा [२]माम् आत्मानमपि सर्वभूतेषु सुरनरतिर्यगादिशरीरेषु तदुपाधिवशात् तत्तत्समानरूपोऽवगम्यत इति अवेयाम् अवगच्छेयम् । शशिनः शिक्षणीयमाह -
§ आंदद्यामित्यस्य स्थाने 'आददीय' इति साधु ।