पुष्टिरिति । पूर्वपंक्षप्रतिपदमारभ्य क्रमाद् दूर [१] स्थितस्यादित्यमण्डलस्य पञ्चदशः
पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते । ते प्रतिबिम्बाश्चन्द्रस्य
कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव
जन्मास्तित्व विपरिणामविवृद्ध्यपक्षयविनाशरूपाः षड् भावविकाराः, न त्वात्मन इति
विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह—तोयादीति । यथैको [२] मार्तण्डोऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपाधिभेदेन भेदप्रतीतावप्येकतामपि[३] च विद्याम् । त्वत्प्रसादादिति सर्व [४]त्र योज्यम्॥
स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं |
स्नेहादिति । स्नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह —स्नेहादिति । व्याधेन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः कपोतः स इवाचरतीति तथा । कश्चिद् वनेचरो नीडान्तिके सञ्चरतः पक्षिणो जालमातत्य प्रतिपालयामास । तत्र प्रथममजानन्तः कपोतशिशवो जालेनाबृताः। तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतश्च पुत्रभार्याविलपनविचेष्टनादिदर्शनजनितदुःखप्रणयकरुणान्धधीः स्वयमपि विलपन्नपायमगमत् । एवं मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह — प्राप्तमिति । शयुः अजगरः तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमात्रं कुर्वन् क्षुधं सहेय सोढुं शक्तो
* नशर्लुङि पुषादित्वादङ् । 'नशिमन्योरलिट्येत्वमिति भाष्यवार्तिकादत एत्वम् । छन्दोग्रहणं तु वाक्यभेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति वृत्त्यनुसारेणेदम् ।