पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
[स्कन्धः - ११
नारायणीये


प्रथममागतान् स्वल्पार्थदान् पुरुषाननादृत्य अपिनामान्यो भूरिप्रदो मामुपेष्यतीति दुराशया दूयमानमनाः निशीथेऽपि जाग्रती पुनश्च निर्वेदासिना धनादौ दुराशां[]पाशांश्छित्त्वा सुखं सुष्वाप । एवं निराशो भूत्वा । सुप्यामिति सुखं लभेयेत्येव विवक्ष्यते । कस्यचिदपि ममत्वेन स्वीकारो दुःखहेतुरित्यत्र कुररो नाम पक्षी गुरुरित्याह –भर्तव्येति । आमिषं गृहीत्वापतन्तं कुररमन्ये पक्षिणो जघ्नुः । तद्वद् भर्तव्ययोगाद् ममत्वेन रक्षणीयद्रव्यसम्बन्धाद् अन्यैः बलिभिः न हन्यै न हतो भवेयम् ॥ ६ ॥

वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
 कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
 गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ७ ॥

 वर्तेयेति । मानावमानपरित्यागः सुखहेतुरित्यर्भकाच्छिक्षयेयमित्याह – वर्तेयेति।बहुभिः सह सञ्चारे गोष्ठीकलहादिना श्रीहरिस्मरणकीर्तनादौ प्रमादो भवेदिति कन्यायाः शिक्षयेयमित्याह — निस्सहाय इति । काचित् कन्यकात्मवरणायागतान् पुरुषान् भोजयितुं स्वयं शाल्यवहननं कुर्वती प्रकोष्ठस्थशङ्खवलयस्वनजुगुप्सया शङ्खवलयमेकावशिष्टमकरोत् । स इव वर्जितान्योन्यघोषः त्यक्तेतरेतरव्यर्थप्रलापादिः । ईश्वरे समाधावितिकर्तव्यतां शरकाराच्छिक्षयेयमित्याह – त्वच्चित्त इति । यथेषुकृद् इष्वृजूकरणे दत्तचित्ततया क्ष्माभृदायाने भेर्यादिघोषं न बुबुधे, तद्वत् त्वञ्चित्तोऽहमपि परम् अन्यं नावबुध्यै | विषयवासनया मनो न विक्षिपेद्, नापि सुषुप्ताविव सर्वथा लीयेतेति भावः । गृहारम्भोऽनर्थायेति सर्पाच्छिक्षयेयामित्याह – गेहेष्विति । अहिर्यथोन्दुरोर्मूषिकस्य मन्दिरेषु कुहरेषु वसति, स इव निवसानि ॥ ७ ॥

त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
 त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।


  1. ‘शारिछ' ग, पाठः.