ऽयं देहः इह सकलजन्तुष्वपि परतः अवसाने परं केवलं वह्नेर्दहनाय
शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति । अक्षिकर्णत्वग्जिह्वाद्या
इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन
वाकूपाण्यादि गृह्यते | एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु
कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥ ९ ॥
ननु प्रारब्धकर्मफलस्यावश्यं[१] भोग्यत्वात् तद्भोगस्य च देहगे[२]हासक्त्यायत्तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति प्रार्थयते----
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् |
दुर्वार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्रढष्ठिम् अनपायि[३]नीम् । अतिदुर्लभस्या[४] स्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह---नूनमिति ॥ १० ॥
इति पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् ।
एवं पञ्चविंशत्या गुरुभिरुत्पन्नविवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति--
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत् स्वरूपं परं ते |