अनित्याश्च । त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचरिणीं वा
महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् ।
विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दम्तत्तुल्यः सम्मदः सुखं
केन वा स्याद्, न केनापीत्यर्थः ॥ ३ ॥
तदेवाह-
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशा: |
त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति जातालंबुद्धेः अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह सर्वत्र सुखं चरतः आशाः दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्व सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाहूदः, तद्गस्य मत्स्यादेः सर्वा दिशस्तोयैकमय्यो भवन्ति, एवं त्वद्भक्त्यानन्दनिमग्नस्य भक्तस्यापि सर्वा दिशः सौख्यमय्य एवेत्यर्थः । किञ्च, सोऽयं भक्तः खलु इन्द्रादिलोकं हृद्या[१] मनोहराः योगसिद्धीः उपासन[२]फलभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षतीत्येतदास्ताम्, असौ मोक्षसौख्येऽप्यनीहो निराग्रहः । किं तर्हि दुष्करतादृष्टेः, न । स्वयमनुपतिते भक्तिमहिम्ना स्वयमेव प्रादुर्भूते ॥ ४ ॥
आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याह--
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- |
त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्वाध्यमानः आकृष्यमाणोऽपि तैर्नाभिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः- दुर्बलैरिति ।