निर्यन्मला निर्यन्ति निर्गच्छन्ति रागद्वेषमोहमदमात्सर्यरूपाणि मनोमलानि येषां त, तथा, तादृशाः केचिद् बोधे ज्ञानमार्गे भक्तिमार्गे वाप्युचिततामायान्ति अधिकारं प्राप्नुवन्ति । यदि सम्यग्विरक्तास्तर्हि ज्ञानयोगेऽधिकारिणः, यदि वेषद्विरक्तास्तर्हि भक्तिमार्गेऽधिकारिणो भवन्ति । तदुक्तं ' न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद ' इति । तावता तावन्मात्रोपयोगिना कर्मणा भक्तिमार्गप्रस्थितानामस्माकं किं प्रयोजनं, न किमपीत्यर्थः । अन्ये पुनश्चित्ता [१]र्द्रत्वं रागादिराहित्यम् ऋते विना विरक्तम्मन्याः केचित् तर्कपथे वेदान्तशास्त्रे परं क्लिष्ट्वा क्लेशैकभाजनानि भूत्वा हे विभो! तव ब्रह्माख्यं वपुः स्वरूपं विचिन्त्य वेदान्तार्थविचारोपायभूतैर्विविधैर्न्यायैविचार्य बहुभिरुपासनाविधिभिश्चोपास्य बहुभिर्जन्मान्तरैः सिध्यन्ति फलं साघयन्ति ॥ ९ ॥
तर्हि भक्तियोगेऽपि किमुक्तदोषाः सन्ति, नेत्याह--
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं |
त्वदिति । त्वद्भक्तिस्तु तथा न भवतीत्यर्थः । किन्तु जयति कर्मज्ञानमयाद् योगद्वयादुत्कृष्टा भवति । उत्कर्षमेवाह – कथारसेति । त्वत्क[२]थायां यः शृङ्गारादिरूपो रसः, अथवा कथाश्रद्धा, स एवामृतझरी मधुद्रवः तस्मिन् नितरां मज्जनेन स्वयं सिध्यन्तीति । अयमर्थः–त्वत्कथाः शृण्वतां पुनःपुनः शुश्रूषा जायते । ततश्च विविधविषयतृष्णापैति । ततश्चित्तशुद्धिद्वारा भक्तिः स्वयमेवोत्पद्यत इति । ननूत्पन्नापि भक्तिरज्ञान[३]कृतं बन्धं न निवर्तयति, ज्ञानस्यैवाज्ञाननाशकत्वादित्याशङ्कयाह – विमलेति। अक्लेशतः क्लेशं विनैव विगतं नष्टं मलं शरीराद्यहंममाभिमानरूपमज्ञानं यस्मात् प्रबोधात् स विमलप्रबोधो ब्रह्मज्ञानं, स एव पदवी मार्ग उपायो ब्रह्मप्राप्तेः, तां तन्वती कुर्वतीति । अयमाशयः - भक्त्तेर्हि बन्धमोक्षाख्यफलजनने त्वत्स्वरूपब्रह्मज्ञानमवान्तरव्यापारमात्रमिति सा भक्तिरेव भगवत्यक्लेशेनैव