प्रीत्येति । तत्तपसा जातेन प्रसादेन नरसखो नारायणाख्यस्त्वमस्य पार्श्व प्राप्तवान् । अथ अनन्तरं स तु तुष्ट्या तोष्टूयमानः पुनः पुनरतिशयेन वा स्तुतिं कुर्वन् त्वया विविधैर्वरैः प्रलोभितो नानुमेने न तान् वरानवृणोत् । अत्र हेतु:- भक्तितृप्तान्तरात्मेति । भक्त्या तव भजनेनैव तृप्तः पूर्णः अन्तरात्मा मनो यस्य । किञ्च, त्वदीयां मायां द्रष्टुमवृणोच्च । को[१] हि नाम दुःखदात्रीं मायां वृणुयात् । अतोऽस्मिन्नसम्भावनीयमेतदिति किलशब्दा[२]र्थः । अथवा माय[३]या यद् दुःखं, तदनभिज्ञो जन्मप्रभृति । अत आश्चर्यहेतोः अननुभूतस्य दर्शने ह्याश्चर्यं भवति[४], अतः तदपि मायादुःखमपि मृगयते अनुबुभूषति नूनम् इति तर्कयामि ॥ ६ ॥
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण- |
यात इति । त्वयि नरनारायणाख्ये आशु तस्य माया[५]दर्शन[६]प्रार्थनानन्तरमेव याते बदरिकाश्रमं प्रति गते सति । वातेन आकुलेभ्यः इतस्ततश्चालितेभ्यो जल- देभ्यो गलता तोयेन पूर्णैः अत एव अतिघूर्णद्भिः उपर्युपरि प्रसर्पद्भिः सप्तार्णोराशिभिः जगति मग्ने स ति स तु मार्कण्डेयः वर्षकोटी: जले सम्भ्रमन् दीनो वटदलशयनं कञ्चिदाश्चर्यबालं दूरे प्रैक्षिष्ट ॥ ७ ॥
दृष्ट्वा त्वां हृष्टरोमा त्वरितम[७]भिगतः स्प्रष्टुकामो मुनीन्द्रः |
दृष्ट्वेति । श्वासेनान्तः प्रविष्टो विष्टपौघं चतुर्दशभुवनात्मकं जगद् दृष्टवान्।