ब्रह्मज्ञानमुत्पाद्याज्ञाननिवृत्तिद्वारा मोक्षमपि ददातीति [१]। किञ्च, सद्यः अस्मिन् जन्मन्येव सिद्धिं फलं करोति, न ज्ञानमार्ग इव कालान्तरे | अयि विभो ! वातालयाधीश्वर ! मे मम त्वदेकशरणस्य सा क्लेशरहिततयातिशुभा त्वत्पदप्रेमप्रौढिरसार्द्रता तव पादाम्बुजयोः प्रेम्णः प्रौढिरतिशयोऽनपायिनी प्रीतिः स एव रसः, आस्वादनीयत्वात्, तेनार्द्रता विलीनहृदयता तादृशी भक्तिरेव द्रुततरमेवास्तु, मम सेवामान्द्येऽपि मदेकशरणोऽयमिति धिया मह्यं तादृशीं भक्तिमेवानुगृहाणेत्यर्थः ॥ १० ॥
इति भगवद्रूपवर्णनं भगवद्भक्त्युत्पत्त्यादिवर्णनं च
द्वितीयं दशकम् ।
अथ भक्तानां स्वरूपं वर्णयति -----
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः |
पठन्त इति । ये भक्ताः त्वयि खलु त्वयीश्वर एव रमन्ते, नान्तरान्तरा विषयेष्वपि, तानमून् परं केवलम् अहं धन्यान् भाग्यवतो मन्ये । रमणप्रकारमाह ---- पठन्त इति । ते नामानि पठन्तः उच्चैः कीर्तयन्तः, हे वरद ! भक्ताभीष्टप्र [२]द! कीर्तनद्वारा हृदि प्रविष्टं तव रूपं स्मरन्तः, अत एव प्रमदभरसिन्धौ आनन्दातिशयरूपे समुद्रे निपतिताः तादृशानन्दानुभावैर्हर्षाश्रुरोमाञ्चादिभिश्चोपलक्षिताः[३], गुणकथाः भक्तवात्सल्यादी [४]न् गुणान् अत्यद्भुतानि चरितानि चान्योन्यं कथयन्तः, गृहाद्यनपेक्ष[५]या चरन्तः । एवम्भूतानां मनः पुनस्त्वत्पादारविन्दाच्चालयितुं पारमेष्ठयादिपदमप्यकिञ्चित्करमित्याह – समधिगतेति । समधिगप्तानि सम्प्राप्तानि सर्वाण्यभिलषितान्यभीष्टानि येषां, ते तथा । त्वत्पादारविन्दस्य सकलपुरुषार्थरूपतया तत् प्राप्ताः पुनरपरं न काङ्क्षन्तीत्यर्थः ॥ १ ॥