पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
केशादिपादवर्णनम्


 एवं भगवदवतारचरितस्मरण कीर्तनादिमिरुपबृंहितप्रेमलक्षणभक्तिपरिपाकवशेन हृदयाकाशमवतीर्ण स्फुटप्रतीयमानावयथवेषविशेपादिकं भगवदप पुर इवावलोकयन् यथानुभूतं स्तौति -

अग्रे पश्यामि तेजो निवितरकलायावलोभनीयं
 पीयूषाप्लावितोऽहं तदनु तदुसरे दिव्यकशोरवेपम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाश्चिताङ्गै-
 रावीतं नारदाधैर्विलसदुपनिषत्सुन्दरीमण्डलैथ ॥ १ ॥

 अग्र इति । तेजः प्रभामण्डलम् । तद्नु तद्दर्शनानन्दरं दिव्यः सात्त्विक: प्रकाशोज्ज्वलः आ षोडशाब्दात् कैशोरः, तत्सम्बन्धी वेषो यस्मिन् | तारुण्यारम्भरम्यं षोडशवर्षीयं किमपि रूपं च पश्यामि । आधीत परिवारितम् । उपनिषत्सुन्दरीमण्डलैरित्यनेनेदमवगम्यते - परं ब्रह्म श्रीकृष्णः गोप्यस्त त्प्रतिपादकोपनिषदः, श्रीनारदाइयस्तदुपदेष्टारः द्रष्टाधिकारी ॥१॥

 दिव्यकैशोरवेषमिति यदुक्तं तदेवाह---

नीलाभं कुञ्चिताग्रं धनभगलतर संगतं चारुभङ्ग्या
 रत्नोत्तंसाभिरामं बलगितमुदकैः पिञ्छजालैः ।
मन्दारसनिवीनं तव पृथुकबरीभारमालोकयेऽहं
 स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालवालेन्दुवीथीम् ॥ २ ॥

 नीलाभमिति । घनं निविडम् | उदयच्चन्द्रकैः प्रकाशमानाग्रदेशस्थचित्रवर्णैः । मन्दारस्रजा सुरकुसुमविरचिताम्लानमालया निघीतं वेष्टितम् ॥ २ ॥

 यथानुभृतं नेत्राम्बुजद्वन्द्वं स्तौति -

हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलविलासै-
 रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ! ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
 कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ ३ ॥