पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
[स्कन्धः - १२
नारायणीये


 हृद्यमिति । अनाथे अशरणे ॥ ३ ॥

उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
 व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्त:-
 प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वत्र्तमुद्भासतां मे ॥ ४ ॥

 'उत्तुङ्गेति । हरिमणिमुकुरवद् इन्द्रनीलमणिमयदर्पणवत् प्रोल्लसन्त्यां गण्डपाल्यां कपोलदेशे व्यालोलता बिम्बप्रतिबिम्बद्वैरूप्येण दोलायमानेन मकराकारयोर्मणिकुण्डलयोर्द्वन्द्वेन दीप्रं दीपनशीलम् ॥ ४ ॥

बाहुइन्द्रेन रत्नोज्जलवलयभृता शोणपाणिप्रवाले-
 नोपात्तां वेणुनालीं प्रसृतनखमयूखाङगुलीसङ्गशाराम् ।
कृत्वा वक्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः
 शब्दब्रह्मामृतस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥ ५ ॥

 बाहुद्वन्द्वेनेति । प्रसृतनखमयूखाङ्गुलीसङ्गशारां प्रसृतनखमयूखानाम् अङ्गुलीनां सङ्गेन शारां शबलवर्णाम् । सुमधुरो विकसन् प्रकाशमानो रागो गीतविशेषो यस्मिन्निति क्रियाविशेषणम् । उद्भाव्यमानैः प्रकाश्यमानैः शब्दब्रह्मामृतैः नादामृतैः ॥ ५ ॥

उत्सर्पत्कौस्तुभश्रीतातीभिररुणितं कोमलं कण्ठदेशं
 वक्षः श्रीवत्सरम्यं तरलतरसमुहीप्रहारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-
 ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ ६ ॥

 उत्सर्पदिति । हास्प्रतानं मौक्तिकमालाजालम् । विलोलल्लोलम्बामुरासि तथा रत्नमालां च भावये ॥ ६ ॥