पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १००]
३७३
केशादिपादवर्णनम् ।


अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं
 लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं
 ध्यायामो दीप्तरक्ष्स्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम् ॥ ७ ॥

 अङ्ग इति । पञ्चाङ्गरागैः हरिचन्दनगोरोचनादिभिः अतिशयेन विकसता व्याप्तेन सौरभेणाकृष्टा लोका येन स तथा । लीनानेकत्रिलोकीम् अन्तर्गतानेकब्रह्माण्डामपि कृशामिति । अयमर्थः- यद्यपीदमपि ब्रह्माण्डं श्रीकृष्णोदरस्थं, तथापि एतद्ब्रह्माण्डान्तस्थानां तदानीन्तनानां स्वमूर्तेरिदन्तया प्रदर्शनं भगवतो योगश्वर्य[]वैभवेन । एवञ्च मध्यवल्ल्याः कृशत्वापादनं नास्य[] किञ्चिद् भार इति । शक्राश्मेति । भगवन्मूर्तेरिन्द्रनीलश्यामत्वात् पीताम्बरस्य कनकनिभत्वाञ्च सञ्जातपरभागमिति भावः । दीप्ताभिः रश्मिभिः मणिदीप्तिभिः स्फुटया प्रकाशमानया ॥ ७ ॥

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया
 विश्वक्षोभं विशङ्कय ध्रुवमनिशमुभौ पीतचेलाहवृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्र-
 च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्गे निषेवे ॥ ८ ॥

 'ऊरू इति। विश्वक्षोभं लोकोत्तररामणीयकत्वेन द्रष्टृजनपारवश्यं विशङ्कय। समस्तार्थपालीनां सकलपुरुषार्थसार्थानां यः समुद्गः सम्पुटक:, तस्यच्छाया शोभेव शोभा यस्य ॥ ८ ॥

मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं
 पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।
उत्तुङ्गताम्रराजन्नखरहिमकरज्योत्स्त्रया चाश्रितानां
 सन्तापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ ९ ॥


  1. 'र्येण । ए' क. ग, पाठः.
  2. 'स्यातिभा' क. ग. पाठः.