मञ्जीरमिति । भ्रान्तिरूपेऽब्धौ मज्जतां प्रणतजनानाममृतार्थिनां मनो- रूपस्य मन्दरस्य उद्धारे कूर्मम् । सन्तापस्य ध्वान्तस्य अज्ञानस्य च हन्त्रीम्॥९॥
योगन्द्रिाणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो |
योगीन्द्राणामिति । योगीन्द्राणां ध्यातॄणां त्वदङ्गेषु मध्येऽधिकसुमधुरम् । मुक्तिभाजां तु निवास आश्रयः | परमानन्दसन्दोहलक्ष्मीं मोक्षम् ॥ १० ॥
एवं स्तुतिमुपसंहृत्य तत्र वैगुण्यादिसम्भवमाशङ्कथ स्तोत्रस्य साद्गुण्यकरणायेश्वरे समर्पयन् वक्तृश्रोतॄणां पठनश्रवणफलमाशास्ते-
अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ ! क्षमेथाः |
अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वाद् नारायणेन प्रोक्तत्वाञ्च।ननु विहितमविहितं वेदं स्तोत्रं त्वत्प्रसादाय भूयादिति समर्प्यत इति चेत्, श्रुातिविहितमेवेत्याह——श्रुतिष्विति । जनुषा अवतारैर्भगवतः स्तुत्यतया वर्णनं विधिर्विद्यते, तेन[१] स्फीतं व्याप्तम्[२], अथवा श्रुतिषु या जनुषा स्तुत्यता, तस्याः 'हे स्तोतारः' (द. ९९. क्ष्लो. ३) इत्यादिशब्दान्तरेण वर्णनेन लीलाव-