पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[स्कन्धः - १
नारायणीये

विदधते कुर्वन्ति । अथवा सुखगतिः ब्रह्मानन्दप्राप्तिः, तां न विदधते [] । अस्मिंल्लोके त्वत्कृपयैव त्वद्भक्ता भूत्वा सञ्चरन्तो जना बहवः श्रूयन्ते । अयि विष्णो! मय्यपि तादृशीं कृपां कुर्विति भावः ॥ ३ ॥

 के ते जना इत्यत आह ---

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
 भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश ! स्वैरं सततपरिनिर्भातपरचित्-
 सदानन्दाद्वैतमसरपरिमग्नाः किमपरम् ॥ ४ ॥

 मुनीति । श्रीनारदो मुखमादिर्येषां ते मुनिप्रौढाः[] मुनिश्रेष्ठाः जगति रूढाः प्रसिद्धाः खलु । किन्तु गूढात्मगतयः गूढोऽस्मदादिभिरशक्यदर्शन आत्मा गतिश्च येषां, ते तथा। अ[] थवा आत्मगतिर्मनोगतिः देवैरप्यविदितनिग्रहानुग्रहाद्यभिप्रायविशेषाः । अथवा आत्मनो[] गतिर्ज्ञानम् । भवत्पादाम्भोजस्मरणेन विरुजो विगतसकलपीडाः, ते खलु जगति स्वैरं चरन्ति । कथमित्यत आह - सततेति । सततं सर्वदैव परिनिर्भातम् अनुभवपद[]वीमारूढं परचित्सदानन्दं सच्चिदानन्दं परं ब्रह्म, तदेवोपाधिलयादद्वैतं, तस्य प्रसरे संप्लवे परिमग्नाः तदेकीभूताः सन्तः सञ्चरन्ति । हे ईश ! अतः परं किं तेषां प्रार्थनीयमवशिष्टम्[] । तद्वन्मामप्यनुगृह्णीष्वेति भावः ॥

 ननु श्रीनारदादयो मत्कृपया ज्ञाननिष्ठाः सन्तो विधूतक्लेशाः [] स्वैरं चरन्तीति ज्ञानमेव प्रार्थ्यताम् । किमज्ञानजनितक्लेशनिरसने संशयितया भक्त्येत्याशङ्कां परिहरन् भक्ति प्रार्थयते--

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
 दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो
 भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ५ ॥

 भवद्भक्तिरिति । मम स्फीता भवद्भक्तिर्भवतु । सैव ममाशेषक्लेशौघं प्रशमये-


  1. 'त इत्यर्थः । अ' क. पाठ:.
  2. 'श्रेष्ठा:' क. पाठः.
  3. 'यद्रा' क. पाठः.
  4. 'त्मग' क. पाठ:.
  5. 'दमा' क. पाठः
  6. 'मिति भा' क. पाठः.
  7. 'शाः सञ्च' क, पाठः.