चिदानन्दाद्वैतवाक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः किं प्रार्थ्यं, न किमपीत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरूपाया भक्तेः अपरं ज्ञानादि कि प्रार्थ्यं, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥
एवं प्रेमलक्षणां भक्तिं स्तुत्वा स्वस्य तस्यामनधिकारमनुसन्दधानस्तत्साधनरूपां क्रियात्मिकां भक्ति प्रार्थयते-
विधूय क्लेशान मे कुरु चरणयुग्मं धृतरसं |
विध्येति । क्लेशान् रोगान् बाह्यानाभ्यन्तरान् वा विधूय मे चरणयोर्युग्मं भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रदक्षिणादेरशक्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन् धृतरसं कुरु । नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु । अथ ते तव श्रीपादे [१]ऽर्चितायास्तुलस्याः परिघ्राणे घ्रा[२]णं घ्राणेन्द्रियं धृतरसं कुरु । श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥
अनन्तरं स्मरणं प्रार्थयते -
प्रभूताधिव्याधिप्रसमचलिते मामकहृदि |
प्र॒भूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्बाह्यैश्च प्रसभं बलात् चलिते शरीरादियोगक्षेमैकव्याप्टते मामकह्टदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद् (दशकं १. क्ष्लो. ३) इत्यारभ्य त्रयोदशभिः[३] क्ष्लोकैर्वर्णितं परमरसचिद्रूपं परमरसः परमानन्दश्चासौ चिद् ज्ञानं च, तन्मयं रूपमुदियात् । यथा तरणिमण्डलमु-