एवं स्तुतिमुखेन प्रार्थनामुखेनां च भक्तेभक्तानां च स्वरूपं वर्णयन् प्रकरणमुपसंहरति -
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया- |
किमिति । भूयोभिरुक्तैर्बहुभिः प्रलापैः किं फलं, तव करुणाभावे न किमपीत्यर्थः। हे देव! भक्तानां हृघुद्युद्योतमान ! यावद् यस्मिन् काले तव हि ईश्वरस्यैव करुणा कृपा उदियात् प्रादुर्भवति, तावत् तावत्कालपर्यन्तम् अहं प्रहितं त्यक्तं विविधम् उक्तप्रकारेण बहुविधम् आर्तानां प्रलपितं निरर्थकं वचनं येन स प्रहितविविधार्तप्रलपितः तथाभूतः सन् पुरः पुरोभागे क्लृप्ते सङ्कल्पिते अथवा प्रतिमासम्बन्धिनि तव श्रीपादे यथाशक्ति यावदारोग्यं व्यक्तं निश्चिनोमीति यावत् । नतिर्नमस्कारः नुतिः स्तुतिः निषेवा पूजा, ताः विरचयन् विशेषेण भक्तिश्रद्धावृत्तिसहितं कुर्वन् दिवसान् नेप्यामि, मम प्रलापेन[१] केवलेन त्वत्कृपा नोदयमासा[२]दयति । किञ्च, वृथा कालक्षेपः स्याद्, अतो यथाशक्ति त्वत्सेवां कुर्वन् त्वत्कृपां च प्रतिपालयन् दिवसान् नयामीत्यर्थः । एवं पञ्चदशभिः क्ष्लोकैः परीक्षिदाख्यानसिद्धं भक्तेर्भक्तानां च स्वरूपं वर्णितम् ॥ १० ॥
इति भक्तस्वरूपवर्णनं भक्तिप्रार्थना च तृतीयं दशकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियायां
प्रथमस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्खया ३०.