तस्य चेति । तस्य ब्रह्माण्डस्य च सप्तावरणानि सन्ति । तान्या[१]ह- क्षिती[२]ति । क्षितिपयोमहोनिलद्यावः पञ्चभूतानि, महत्[३] महत्तत्त्वं, प्रकृतिर्माया, आसां सप्तकमेव आवृतयः आवरणानि । अत्र महच्छब्दोऽहन्तत्त्वस्याप्युपलक्षकः । तेन पञ्चभूतानि महदहङ्कारौ च सप्तावरणानि । प्रकृत्यावरणं त्वष्टमं व्यापकमेव । एता आवृतीस्तत्तदात्मकतया[४] तत्तदावरणमेवात्मा मूर्तिर्यस्य स तत्तदात्मकः, तत्त[५]या विशन्नि[६]ति तत्तदाबरणेषु तत्तदात्मना सूक्ष्मशरीरेण[७] प्रवि[८]शन्नित्यर्थः । सुखी तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो ! विश्वव्यापिन् ! ते अनावृतं पदं ब्रह्मपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत आवरणस्यापि विलयादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥
एवं मुक्तः पुनर्न संसारीत्याह-
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ! । |
अचिरादीति । ईदृशीमर्चिरादिगतिं व्रजन् जीवः विच्युतिं पुनरावृत्तिं न भजते । अत्र हेतुगर्मे सम्बोधनं- सच्चिदात्मकेति । हे अनिलेश ! श्रीगुरुवायुपुरनाथ ! जगत्पते! भवगुणोदयान् त्वगुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां पाहि आधिव्याधिसङ्कटेभ्यो रक्ष[९] ॥ १५ ॥
इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च
चतुर्थे दशकं सपञ्चकम् ।
एवं शुद्धसत्त्वमयमूर्युपासनां फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्तीशोपासनां दर्शयिष्यन्नादौ भगवतः स्थूलशरीरस्योत्पत्त्युपपत्तये तस्य प्रागभावं दर्शयति -
व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये |