एवं मायासृष्टिमुक्त्वा तत्कार्यस्य महतः सृष्टिमभिधातुं पुरुषस्वरूपमाह-
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् |
मायेति । मायासन्निहितो मायोपाधिकः अप्रविष्टेन तदाश्रयत्वेन बहिःस्थितेनानुपहितेन वपुषा स्वरूपेण चोपलक्षितः, एकांशेन मायामवष्टभ्य स्थित इत्यर्थः । अत्र सन्निहितशब्देन परमार्थरूपस्य परमात्मनोऽपरमार्थभूतोपाधिसम्बन्धस्यापरमार्थता द्योत्यते । एवम्भूतो भवान्[१] सर्वप्रकाशकत्वात् साक्षीति गीतः निगमान्तैस्तद्विद्भिर्वेति शेषः। भेदैरिति यावदुपाधिभेदमात्मानं विभज्य तां मायां, तत्कृतानुपाधीनिति यावत्, प्रतिबिम्बतः प्रतिबिम्वरूपेण विविशिवान् प्रविष्टः शरीरादिप्वहमित्यभिमन्यमानो भवानेव जीवोऽपि, नापरः न त्वत्तोऽन्यो जीवः । एवं जीवेश्वरभेदेन पुरुषस्य द्वैविध्यमुक्त्वा तत्सम्बन्धे महत उत्पत्तिं दर्शयति ---- कालादीत । कालकर्मस्वभावैः प्रतिबोधिता संक्षोभितरजआदिगुणतया कार्योन्मुखीकृता भवता च सञ्चोदिता आहितवीर्या सती सा माया खलु बुद्धितत्त्वमसृजत् सृष्टवती, योऽसौ महानिति महत्तत्त्वमित्युच्यते । महच्छब्दसामानाधिकरण्याय पुंस्त्वनिर्देशः । तद् बुद्धितत्त्वमिति पूर्वेणान्वयः ॥ ४ ॥
न[२] नु किमिदं महच्छब्दवाच्यं, बुद्धितत्त्वमिति चेत्, तदपि किं, कीदृशं चास्य स्वरूपमित्याशङ्कायामाह-
तत्रासौ त्रिगुणात्मकोऽपि च महान् सवप्रधानः स्वयं |
तत्रेति । तत्र मायाकार्येषु[३] असौ महान् स्वयं त्रिगुणात्मकोऽपि सत्त्वप्रधानः प्रकाशबहुलत्वाज्जीवानां समष्टिरेको महान् जीवः । यथा वृक्षाणां समष्टिर्वनम्, एवं