ग्रीवेति । तव ग्रीवा कण्ठदेश: महः महर्लोक: जनो जनलोकः तपस्तपोलोकः फालं ललाटं समस्तमयत्य विश्वात्मनः सत्यं सत्यलोकः हे जगन्मयतनो ! विश्वमूर्ते[१]! एवम् उक्तनकारेणैव जगदाक्ष्रितैरन्यैर्वक्ष्यमाणैक्ष्च निबद्धं सम्पूर्णावयवत्वेन सम्पादितं वपुर्यस्य स निबद्धवपुः । हे भगवन् ! तस्मै ते नमोऽस्तु ॥ ३ ॥
जगदाश्रितैरन्यैरपि निवद्धवपुष इत्युक्तम् । तदेव प्रपञ्चयति ---
त्वद्रझ्रन्धरन्ध्रपदमीक्ष्वर ! विश्वकन्द- |
त्वदिति । हे ईश्वर ! विश्वकन्द ! जगत्कारणभूत ! तव ब्रह्मरन्धं द्वादशान्तं, तदेव पदं स्थानं छन्दांसि वेदा एव | घना मेघाः[३] तव केशपाशाः । उल्लासिचिल्लियुगलं शोभनशीलं भ्रूयुगं द्रुहिणस्य ब्रह्मणो गेहं गृहम् । पक्ष्माणि ऊर्ध्वाधस्तनाक्षिरोमाणि क्रमाद् रात्रिदिवसौ। नेत्रे नयनेन्द्रिययुगं सविता सूर्यः । चकारोऽनुक्तसमुच्चयार्थः । अतः साङ्ख्ययोगौ मकरकुण्डले, आतपत्रं विकुण्ठनिलय इत्याद्यन्वेष्टव्यम् ॥ ४ ॥
निश्शेषविश्वरचना च कटाक्षमोक्षः |
निश्शेषेति । तव निश्शेषविश्वरचना चतुर्दशलोकनिर्माणं कटाक्षमोक्षः । तव कर्णौ दिशः । अश्विनौ तव नासिके द्वे । लोभस्तवाधरोष्ठ: । त्रपा तवोत्तरोष्ठः । हे भगवन् ! तारागणा नक्षत्रपतयस्तव रदनाः दन्ताः । शमनो यमस्तव दंष्ट्रा ॥ ५ ॥