पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८ ]
५७
प्रलयवर्णनम् ।

कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता *किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥ ७ ॥

 कालेति । तत्रादौ प्रलयारम्भे परिसुप्तशक्तित्रजेन परिसुप्तो निलीन: शक्तीनां मूलप्रकृतिमहदहङ्कारादीनां व्रजः समूहो यस्मिन्, तथाभूतेन अखिलजीवधाम्ना संसारदुःखखिन्नानां जीवानामतिचिरकालं विश्रमस्थानभूतेन कालाख्यशक्तिं प्रलयावसाने चतुर्युगसहस्रलक्षणाया रात्रेरवसाने सति त्वं मां प्रबोधयेत्यादिशता आज्ञापयता च त्वया तथा कालाख्यशक्तचा सह प्रसुप्तं शक्तिशक्तिमतोरभेदमवलम्ब्य स्थितम् । यथा कश्चिद् बहुभार्यः पुरुषः इतरासु प्रसुप्तासु दयितया सह कञ्चित् कालं वसन् सुप्रबोधां तां प्रभाते त्वं मां प्रबोधयेत्यादिश्य तयैव सह गाढगाढमालिङ्गय सुसुखं निद्रां गच्छति, तद्वदिति भावः ॥ ७ ॥

चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत् त्वां किल विश्वनाथ ! ॥ ८ ॥

 चतुर्युगाणामिति । अद्वितीये त्वयि एवं चतुर्युगाणां सहस्रं यावत्प्रलयावसानं प्रसुप्ते सति पुनः कालाख्यशक्तिः प्रथमप्रबुद्धा हे विश्वनाथ ! त्वां प्राबोधयच्च | किलशब्दोऽत्र केवलपुराणप्रसिद्धिं द्योतयति ॥ ८ ॥

विबुध्य च त्वं जलगर्भशायिन् ! विलोक्य लोकानखिलान् प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तःस्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९ ॥

 विबुध्येति । हे जलगर्भशायिन् ! आवरणोदकमध्यशायिन् ! त्वं प्रबुध्य अखिलान् लोकान् त्वायि प्रलीनान् विलोक्य । ननु प्रलीनानां कुतो विलोकनसम्भवस्तत्राह – तेष्विति । सूक्ष्मात्मतया कारणरूपेण निजान्तः स्थितेषु तेष्वेव विश्वेषु लोकेषु दृष्टिं ददाथ च दत्तवान् ईक्षितवानित्यर्थः ॥ ९ ॥

 नाभिपद्मद्वारा प्रपञ्चसृष्टिप्रकारमाह-

ततस्त्वदीयादयि ! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् ।
निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानम् ॥ १० ॥


  • 'तयादौ' इति व्याख्यातृपाठ: स्यात् ।