एवं भगवद्रूपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते---
श्रुतिप्रकरदर्शितप्रचुरवैभव ! श्रीपते ! |
श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरैः दर्शितं लक्षणया प्रतिपादितं प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य । अथवा वैभवं जगत्सृष्ट्यादिसामर्थ्य श्रुतिभिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते! जगदनुग्राहक ! हरे! जगत्संहर्तः! त्वं जय उत्कर्षमाविष्कुरु | हर्षावेशसम्भ्रमाद् द्विरुक्तिः । हे विभो ! त्वं मम दृशोः पदं गोचरम् उपैषि प्राप्तोऽसि दिष्ट्या अहो मम सुखं जातम् । ममाशु भुवननिर्मितौ जगत्सृष्टौ कर्मठां समर्थां धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं ज्ञानमनुगृहाणेत्यर्थः । इति द्रुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्यादीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि द्रुहिणस्येवात्मानं पुरः प्रदर्श्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥
अथ स्तुवतोऽस्य भगवदनुग्रहप्रकारमाह-
लभस्व भुवनत्रयीरचनदक्षतामक्षतां |
लभस्वेति । अयि विधे! त्वम् अक्षताम् अनपायिनीं भुवनत्रयीरचनदक्षतां त्रैलोक्यनिर्माणसामर्थ्यं लभस्व प्राप्नुहि । मदनुग्रहं गृहाण, तव जगन्निर्माणविधौ यद्यदंनुगृह्णामि, तत्तत् परिगृह्णीष्वेत्यर्थः । भूयस्तपः कुरु । किञ्च तव मय्यखिलसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रकृष्टप्रेमलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्त्तवा वेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमानसम् आदधाः कृतवानसि ॥ ८ ॥
- ↑ 'चि' मूलकोशपाठ:.