पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १३]
७९
हिरण्याक्षवधवर्णनम् ।

गरिष्ठाभिर्मुष्टिमहतिभिरभिघ्नन्तमसुरं
 []राग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ ७ ॥

 भवदिति । भवतो विष्णोः सुदर्शनाख्यस्य चक्रस्य ज्योतिषस्तेजसः कणः स्फुलिङ्गस्तस्य लवो लेशस्तस्य निपातेन प्रसरणेन मायानामासुरीणां चक्रे समूहे विधुते चलिते । यथा रवेः प्रकाशलेश निपातेन नैशं तमः, तद्वददर्शनं गते सतीत्यर्थः । ततः स्वारम्भवैफल्यानन्तरं विततो व्याप्तो घनो निबिडो यो रोषस्तेनान्धं मनो यस्य स विततघनरोषान्धमनाः तम् । करकलितं सुदर्शनमनन्यसाधारणं प्रभावं च दृष्ट्वापि प्राग्जन्मशापप्रभावेन स्वस्वामिनमजानन्तमिति भावः । गरिष्ठाभिर्गुरुतराभिर्मुष्टिप्रहृतिभिरभिघ्नन्तं विजिगीषया पुनः पुनः प्रयुञ्जानं " कराग्रेण स्वेन श्रवणपदमूल " इति पाठः समीचीनः । “करेण कर्णमूलेऽहन्”, “निहतः करेण" (स्क. ३. अ. १९. क्ष्लो. २५, २८) इति च भागवतोक्तेः । अनन्तरक्ष्लोके च "तव करसरोजप्रमथित " इति ॥ ७ ॥

महाकायः सोऽयं तव क[]रसरोजप्रमथितो
 गलद्रक्तो वक्त्रादपतदृषिभिः क्ष्लाघितह[]तिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
 मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ८ ॥

 महाकाय इति । 'भगवता स्वकराग्रेण कर्णकपोलसन्धौ ताडितोऽस्य मुखं पश्यन्नेवासौ तनुं जहौ, अहो भाग्यं को न्विमां संस्थितिं लभेत' इत्यृषिभिः क्ष्लाघिता सशिरः कम्पं स्तुता हतिर्निग्रहो यस्य स तथा । उद्दामप्रमदभरेणान्तदुर्बहेण सन्तोषातिशयेन विद्योति शोभनशीलं हृदयं येषां ते मुनीन्द्रा जनस्तपः- सत्यलोकनिवासिनः सान्द्राभिः सम्भूय कृतत्वाद् बधिरीकृतदशदिशाभिः स्तुतिभिः स्तोत्रैरध्वरतनुं यज्ञाङ्गं श्रीवराहमूर्तिमनुवन् तुष्टुवुः ॥ ८ ॥

 अध्वरतनुत्वेनैव स्तौति

त्वचि च्छन्दो रोमस्वपि कुशगणक्ष्चक्षुषि घृतं
 चतुर्होतारोऽङ्ध्रौ स्रुगपि बदने चोदर इडा ।


  1. ‘स्वपादाङ्गुष्ठेन’ ख. पाठ:.
  2. 'चरणपातप्र' ग. घ. पाठ:.
  3. 'ग' क. पाठः.