समनुस्मृतेति । सम्यग् यमनियमादियुक्तमनुस्मृतं लयविक्षेपादिराहित्येन चिन्तितं तावकाङ्घ्रियुग्मं त्वत्पादपद्मयुगलं येन । पङ्कजसम्भवस्याङ्गजन्मा पुत्रः स प्रसिद्धः स्वायम्भुवो मनुः निजमन्तरं चतुर्युगाणां साधिकैकसप्ततिपरिमितं कालम् अन्तरायाः शारीरमानसदैौवकभौतिकाः क्लेशाः प्रजापालनोपरोधाः, तद्ग्रहितम् । एतच्च भवदङ्ङ्घ्रिस्मरणतच्चरितकथनानुभावात् । अत एव सुखं स्वैरं यथा भवति तथा निनाय गमयामास ॥ १ ॥
अथ कापिलप्रसङ्गाय कर्दमकथा प्रस्तूयते--
समये खलु तत्र कर्दमाख्यो ढहिणच्छायभवस्तदीयवाचा । |
समय इति । तत्र समये तस्मिन् काले कर्दम इत्याख्या यस्य स प्रजापतिः द्रुहिणच्छायभव इति, “छायायाः कर्दमो जज्ञे" (श्री. भा. स्क. ३. अ. १२ क्ष्लो. २७) इत्युक्तेः। तदीयवाचा प्रजाः सृजेति ब्रह्मण आदेशाद् धृतसर्गरसः प्रजासृष्टिकामः सन् | निसर्गरम्यं स्वत एव सञ्चिन्तकहृदयरञ्जकम् अयुतं समा दशसहस्रसंवत्सरं सिषेवे तपश्चकार ॥ २ ॥
गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । |
गरुडेति । त्वं तस्मै गरुडोपरि गरुडांसदेशविन्यस्तचरणाम्बुजं वपुराविष्कुरुषे स्म दर्शयामासिथ ॥ ३ ॥
स्तुवते पुलकाद्वताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । |
स्तुवत इति । ततश्च भुवि पतित्वा प्रणम्योत्था[१] य स्तुवते प्रमोद भारेण पुलकावृताय तस्मै कर्दमप्रजापतये मनुपुत्रीं देवहूतिं दयितां भार्थी तस्यां नव पुत्रीरपि स्वं स्वांशभूतं कपिलं सुतं च पश्चादन्ते स्वगतिं मोक्षं चानुगृह्य निर्गतोऽभूः[२] प्रस्थितवानासि स्वायंभुवो मनुर्ब्रह्मावर्त नाम देशमधिवसति, स रथेन स्वमहिष्या शतरूपया सहेतः