पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १५]
८३
कपिलोपाख्यानम् ।

निजभर्तृगिरा भवन्निषेवानिरतायामथ देव ! देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्व विद्याम् ॥ ९ ॥

 निजेति । परमात्मनस्तत्त्वानां चतुर्विंशतेश्च विद्यां ज्ञानं जनानां प्रथयिष्यन् आचार्यपरम्परयागमरूपेण प्रकाशयितुमुद्यतः ॥ ९ ॥

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक ! वायुमन्दिरेश! त्वरितं त्वं परिपाहि मां गदौघात् ॥ १० ॥

 वनमिति । वनमेयुषि स्वदुहितृर्मरीच्यादिभ्यो ब्रह्मपुत्रेभ्यो दत्त्वा वनं गतवति सति जनन्यै मतसर्वस्वं सर्वस्वीयावयवयुक्तं स्वसिद्धान्तमुपादिशन् ग्राहयन् । त्वरितमतिलघु ॥ १० ॥

इति कपिलोपाख्यानं चतुर्दशं दशकम् ।


मतिरिह गुणसक्ता बन्धकृत् तेष्वसक्ता
 ’त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या
 ’कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १ ॥

 मतिरिति । इह त्रिषु लोकेषु ये गुणाः स्रक्चन्दनवनितामृतादिविषयास्तेषु सक्ता मतिः पुरुषस्य बन्धकृत् शरीरबन्धं करोति । तेषु गुणेष्वसक्ता तु तथा बन्धाय न भवति । अपिचामृतं मोक्षं करोति । तर्हि गुणसङ्गः केन त्यज्येतात आह-उपरुन्ध इति । भक्तियोगस्तु सक्तिमुपरुन्धे प्रतिबध्नाति । अथ भक्तिः केन साध्यत इत्यत आह—महदिति । महतां सतामनुगमनेन शुश्रूषया लभ्या भक्तिः । सैवात्र लोके मुमुक्षुभिः साध्येति कपिलतनुः कपिलवासुदेवत्वेनावतीर्णस्त्वं देवहूत्यै स्वमात्रे न्यगादी: उपदिष्टवान् ॥ १ ॥

प्रकृतिमहदहङ्काराक्ष्च मात्राश्च भूता-
 ’न्यपि हृदपि दशाक्षी पुरुषः पञ्चविंशः ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्या[]
 ’कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ २ ॥


  1. 'त्याः' मूलपाठः.