पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
श्राद्धसारे श्राद्धकालः

“प्रौष्ठपदाद्यपरपते मासि चैव मि' ति शनक़स्मरणान्। तया
sऽपस्तम्बेऽपि
‘‘सर्वेष्वेवापरपक्षेषु श्राद्धे क्रियमाणे पितृणा प्रीनिः, कर्तृस्नु का
लनियमात्फलविशेषः । प्रथमेऽहनि क्रियमाणे स्त्रोपायमपत्यं जायते,
द्वितीये स्त्रैणम् , तृतीये ब्रमवर्चसं, चतुर्थे नृपशवः, पञ्चमे पुमान् ,
षष्ठेऽध्वशलोऽक्षशीलश्चसम्मे ऋषेराप्तिः. अष्टम शुद्धिः, नवमे
एकधुरम् , दशमे व्यवहारसिद्धि, एकादशे कृष्णायमं त्रपुसीसं,
द्वादशे पशुमान् , त्रयोदशे बहुमित्रो दर्शनोयापत्यो भवति, चतुर्दशे
आयुधसिद्धिः, पञ्चदशे पुष्टिः' ।
नभस्ये कृष्णपक्षमतिपन्ध्रभृति पञ्चदश दिनानि कृत्स्नशा
ऽपि पक्षः कन्यागते सवितरि महालय इत्युच्यते । तत्र च श्राद्धे पा
—णविधिनैव कर्तव्यम् । तदुक्तं वृद्धमनुना

नभस्यस्यापरः पक्ष यत्र कन्य व्रजेद्रविः ।
स महालयसंयुक्तो गजच्छायादयस्तथा” इति ।
‘‘नभस्यस्यपरे पक्षे तिथिषोडशकं तु यत्”

इति शङ्कायनवचनं दिनवृद्धयभषायेण, अन्यथा तस्य

त्याज्यत्वापत्तेः। अथवा प्रदिपदपारभ्य प्रतिपदि समाप्तिः, प्रतिप
दोऽपि नष्टचन्द्रत्वात् । अथवा पौर्णमास्यामारभ्यामायां समाप्तिरि
ति । ततश्च द्वादशकपालेषु अष्टाकपालवत् पोडशदिवसेषु पञ्चदश
दिनवचनमवयुरस्यनुवादो भविष्यति । अथवा पञ्चदशषोडशदिन
योर्विकल्पः । कन्यस्थार्कः प्रशस्त्यायैव

‘‘कन्यागते सवितरि श्राद्धं कुर्वीत सर्वथा ।

१५