पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
नृसिहप्रसादे

उदीच्यं वैश्वदेविकं मण्डलमुदक्प्रवणं दक्षिणं पिष्ट
मण्डलं दक्षिणाप्रवणं कर्तव्यम् । मण्डलकरणानन्तरं दर्भस्थापनं, त

उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत्कुशान् ।
दक्षिणे दक्षिणाग्रांस्तु सतिलान् विन्यसेद् बुधः' इति

अक्षता यवा इत्यवादे ।

तत्र मण्डलकरणप्रभृत्याश्राद्धसमाप्तेर्वैश्वदेवसम्बन्धि क
प्रदक्षिणं यज्ञोपवीतिना कर्तव्यम् । पितृसम्बन्धि यत्कर्म तत्सर्वमर
सव्यं प्राचीनावीतिना कार्यम् । तदाह बौधायन

‘‘प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् ।

देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः इति । तथा

प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधानाकार्य विधिवद्दर्भपाणिनेति ।

तत्र कात्यायनो विशेषमाह

“दक्षिणं पातयेज्जानु देवान्परिचरन्सदा ।

पातयेदितरज्जानु पितृन्परिचरन् सदा ’ इति । ततोऽपसव्यवह

पूर्वमुदीच्यमण्डलं गचा दक्षिणमण्डलमभ्ययं विप्रपादौ क्षाल
येत् । तदुक्तं मत्स्यपुराणे

‘‘अक्षताभिः सपुष्पाभिस्तदभ्यच्यपसव्यवत् ।

विषाणां क्षालयेत्पादावभिवन्द्य पुनः पुनः' इति । पादप

क्षालनं च विश्वेदेवपूर्वम् ।