तदाह मनु -
“श्राद्धात्परतरं नान्यच्छेयस्करमुदाहृतम् ।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः' इति ।
विषयप्ररोचनामपेक्षमाणः कुर्यादित्ययं विधिः स्वविषय प्ररोचकानि वाक्यान्यपेक्षते, तानि च याज्ञवल्क्यादिप्रणीतानि कानि चित् क्रियाप्ररोचकानि, कानिचित्कर्तव्यतायाः, तत्राद्यानि ताव
तत्र ब्रह्मपुराणे-
“तस्माच्छाद्धं नरो भक्त्या शाकैरपि यथाविधि ।
कुर्वीत कुर्वतः श्राद्ध कुले कश्चिन्न सीदति” ।।
“यो येन िवधिना श्राद्धं कुर्यादेकाग्रमानसः ।
व्यपेतकल्मषो नित्यं याति नावर्तते पुनः ।।
“कालान्तरेषु ते तोयं लभन्ते नान्नमेव च ।
न दत्तं वंशजैर्येषां ते व्यथा यान्ति दारुणाम् ॥
चुत्पिपासासमुदूतां, तस्मात्सन्तर्पयेत् पितृन् ।
नित्यं शक्या यथा राजस्तोयैभोज्यैः पृथग्विधैः ।
तथान्यैर्वस्वनैवेद्यः पुष्पगन्धानुलेपनैः ।
तर्पितास्ते प्रयच्छन्ति कामानिष्टान् हृदि स्थितान् ।
त्रिवर्गञ्च महाराज ? पितरः श्राद्धतर्पिताः ।