पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
नृसिहप्रसादे

माणस्याग्नौकरणत्वात्तस्य च कर्मनामधेयत्वात् । ततः साग्निर्नि
रग्निर्वा वैश्वदैवे नैव दद्यात् ।

“पिण्डेभ्यः शेषयेत्सर्वं न दद्याद्वैश्वदेविके ।

नहि स्मृताः शेषभाजो विश्वे देवाः पुराणगैरिति वायुपुराणे

निषेधदृष्टेः ।

अतो न वैश्वदेवे देयमिति सिद्धम् ।

अग्नौकरणं स्मार्तम् , अतो विवाहाग्नौ कार्यम् । सर्वाधानिनौपा

सनाग्न्यभावे दक्षिणाग्नौ कार्यम् । तदसन्निधाने लोकिकाग्नौ कार्यम् ।

अाहृत्य दक्षिणाग्नि तु होमार्थ वै प्रयत्नतः ।
अग्न्यर्थ लौकिकं वापि जुहुयाकर्मसिद्धये

इति वायुपुराणवाक्यात् ।

अग्न्यर्थमौपासनाग्निसिद्धयर्थम् । दक्षिणम्यसन्निधाने पाणौ
होमं कुर्यात् ।

“हस्तेऽनौकरणं कुर्याद् अग्नौ वाऽनग्निको द्विजः"

इति स्मरणात् ।

अयं हि स्मृत्यर्थः सांप्रदायिकः। सर्वाधान त्वाहिताग्निः द
त्क्षिणाग्न्यसन्निधाने द्विजहस्ते लौकिकाग्नौ वाऽशौकरणं कुर्यात् ।
यदा त्वाधानेनाहिताग्निरनाहिताग्निरुप्यग्निमान् , तदौपासनेऽनौ
करणं, तदभावे द्विजहस्तेऽप्सु वेति ।
सदुक्तं विष्णुधर्मोत्तरे मार्कण्डेयेन

"ग्राहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः।
अनाहिताग्निस्त्वौषासने तदभावे द्विजेऽप्सु वेvति ।