पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘स्यागं तु सर्वथा कुर्यात् तत्राप्यन्यतरस्तयोः
उभावप्यसमर्थो चे नियुक्तः कश्चन त्यजेत्’’ इति ॥

इदमेव स्मृतिरनावलीकाराणामभिमतम् ।

ततस्तुत्यमभिधत्ते ल्घ्यमः

“अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् ।
सर्वमच्छिद्धमित्युक्त्वा ततो यत्नेन भोजयेत् ।

अत्र विशेषः-अत्रोपविष्टद्विजैर्निषेधाद् बलिदानं न कार्यम् ।

“पितृणामन्नमादाय बलि यस्तु प्रयच्छति ।
स्तेयेन ब्राह्मणस्तेन स सर्वः स्तेयकृद्भवेत्।

इति भरद्वाजस्मरणात् ।

अत्रात्रिश्च

“दत्ते वाऽप्यथवाऽदत्ते भूम यो निक्षिपेद् बलिम् ।
तदन्नं विफलं याति निराशैः पितृभिर्गतै:" इति ।

अनन्तरं कुर्यमुच्यते । तत्र प्रचेताः

‘अपोशानमथादाय सावित्रीं त्रिर्जपेदथ ।
मधु वाता इति त्रिचमधीत्यैकं त्रिकं तथा" इति ।

सव्याहृतिकां सावित्रीं जपेत् । तथा व्यासः

“जुषध्वमिति ते चोक्त्वा सम्यग्विधृतभाजनाः।
कृतमौनाः समश्नीयुरपोशानादनन्तरम्" इति ।

अत्रावसरे अपहता इति सर्वतस्तिलान् विकिरेत् । अत्र मन्त्र

‘यश्वरो हव्यसमस्तकव्यभोक्तऽव्ययात्मा हरिरीश्वरोऽत्र ।
यई निधाना दययन्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ।