पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
श्राद्धसारे जीवत्पितृकश्राद्धम् ।।

अथ जीवत्पितृकश्राद्धाधिकारोऽभिधोयते ।

तत्र मैत्रायणीयjवपरिशिष्टनष्टं विशिष्ट विधिवाक्यम्-
‘उद्वाहे पुत्रजनने पित्र्येष्टचा सौमिके मखे । ।
तीर्थे ब्राह्मण जायाते पडेते जोवतः पितुः' इति ।
षट्सङ्ख्या हि सङ्ख्येयपरिच्छेदं कुर्वती सङ्ख्येयाव
श्यकता बोधयन्ती ततोऽन्यत्रानावश्यकतां सूचयति । उद्वाहाऽत्र द्वि-
तीयोऽभिमतः । तत्र पुत्रस्यैवाधिकारात् । तदुक्तमभियुक्ते
‘नान्दीश्राद्धे पिता कुर्यादाचे पाणिग्रहे वृधः ।
अत उर्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्’ इति ।
प्रथमे च पितुरेवाधिकारः । तदुक्तं कर्मप्रदीपे —
“‘स्त्रपितृभ्यः पितादद्यात्सुतसस्कारकर्मसु ।
पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् इति ।

पिण्डशब्देन लक्षणया श्राद्धमुच्यते । पिण्डदोंऽशहरञ्चैषामि- तिवत् । पिता सुतसंस्कारकर्मसु गर्भाधानादिविवाहान्तेषु पिण्डा- नन्दीश्राद्धानि स्वपितृभ्यो दद्यात् । तेषां सुनानामोद्वहनात् श्रा उद्वहनम् विधाहमभिव्याप्येत्यर्थः । तया च स्मरति पाणिनि -आङ मर्यादाऽभिविध्योः " इति । शास्त्रान्तरपर्यालोचनयाऽप्यत्राभि- विधावाङ् । स्वसुतविवाहे स्वपितृभ्यो दद्यादित्युक्तं भवति । द्वितीयविवाहे प्रथमोद्वाहेन संस्कृतस्य सस्कार्यत्वाभावात् । आश्र- मधमों युज्यते न चेत्पत्नीसहितः, पुत्रार्थ एवेति स्वपितृभ्यः पितेति पदत्रयस्यार्थे । ततः प्रकृते वचने उद्वाहे द्वितीये विवाह इत्येव रम